Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥१६८॥
आवश्यक - हारिभद्रीयवृत्तिः
नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थं पूर्वपक्षमाशङ्कवं भगवानेवाह - सौम्य ! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुमसमर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां प्रत्यक्षा एव तेषां सकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षात्कारिक्षायिकभावस्था न सन्ति यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिबद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोपशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्वहु जानाति कश्चिद्वहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानावरणस्य ज्ञस्वभावत्वाद शेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तदपाये प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलिनः प्रागशेषं वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेष संयोगोपायतोऽपेतसमस्तावरणः सर्व वस्तु प्रकाशयति, प्रतिबन्धकाभावात् न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापाराभावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न च प्रकाशकस्वभावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्टविषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिल पदार्थेष्वधिगतिसामर्थ्यदर्शनात् तथा च परमाणुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमपि प्रतिपसव्यमिति । एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तृकं प्रकृष्टपापफलं, कर्मफलत्वात्, पुण्यफलवत्, न च तिर्यगूनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तर सुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते यत एवमागमः - " सततान्बन्धमुकं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यभूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ १ ॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ २ ॥ इत्यादि, एवम्छिष्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो फवइओ तिहि उ सह खंडियसएहिं ।। ६२९ ।।
व्याख्या - पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥
ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदिता पज्जुवासामि ॥ १३० ॥ व्याख्या - पूर्ववन्नवरम् - अचलभ्राता आगच्छति जिनसकाशमिति ।
आभट्ठो य जिणेणं जाइजरामरणविप्पमुद्देणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसीणं ॥ ६३१ ॥ व्याख्या - सपातनिका पूर्ववत् ।
किं मन पुण्णपावं अत्थि न अत्थिन्ति संसओ तुज्झं । वेघपयाण य अत्थं ण याणसी तेसिमो अस्थो । ६३२॥ व्याख्या - किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपद श्रुतिप्रभवो दर्शनान्तरविरुद्ध श्रुतिप्रभवश्च तत्र वेदपदानां चार्थं न जानासि चशब्दाद्युतिं हृदयं च तेषामयमर्थ इत्यक्षरार्थः । तानि चामूनि वेदपदानि - 'पुरुष एवेदं निं सर्व' मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव तथा सौम्याच भ्रातः ! त्वमित्थं मन्यसे - दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाञ्चिद्दर्शनम् - पुण्यमेवैकमस्ति न पापं तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यग्नारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाच्चारोग्यसुखहानिः, अशेषाहार परिक्षयाच्च सुखाभावकल्पोऽपवर्ग:, अन्येषां तु पापमेवैकं, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं वास्ति, देवानामपीर्ष्यादियुक्तत्वात्, नारकाणामपि श्वपचेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्य वस्तुक्षयाच्चापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात् अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येने'त्यादिना प्रतिपादिता च तत्सत्ता, अतः संशयः, तत्र वेदपदानां चार्थं न जानासि तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न
Jain Education International
For Private & Personal Use Only
.www.jainelibrary.org
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340