Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥१८॥ मावस्यक-हारिभद्रीयत्तिः भगवद्वदननिर्गतं सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेत. रपदार्थानां 'उवलद्धी' त्ति उपलब्धये--उपलब्धिनिमित्तमिति गाथार्थः ॥ सा च सुन्दरमङ्गलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम्, आह चहोइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥ ७४६ ॥
व्याख्या-शुभेतरभावपरिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्वोत्यमुनाउंशेन प्राधान्यख्यापनार्थमवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः 'पावकम्मअग्गहणं' ति पापकर्माग्रहणं कर्मविवेकश्च, तथा 'कारणं' निमित्तं प्रयोजनं यथासङ्ख्यम् , उक्तं च परममुनिभिः--'संयमे अणण्हयफले, तवे वोदाणफले' इत्यादि, अणण्हयः -अनाश्रयः वोदाणं-कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवेति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाहकम्मविवेगो असरीरयाय असरीरया अणाबाहा । होअणबाहनिहितं अवेयणमणाउलो निरुओ॥ ७४७॥ __ व्याख्या-कर्मविवेकः' कर्मपृथग्भावः अशरीरतायाः कारणम् , अशरीरता 'अगाबाहाए' त्ति अनाबाधायाः कारणं
संयमोऽनाभवफलः तपो ज्यवदानफलं भवति, 'अनाबाधनिमित्तम्' 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारोभवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम् , अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधकार्यम् , 'अवेदनः' वेदनारहितो, जीव इति गम्यते, स चादनत्वात् 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः॥ नीरुयत्ताए अयलो अयलत्ताए य सासओहोइ । सासयभाषमुषगओ अव्वाबाहं सुहं लहा॥७४८॥ दारं ॥
व्याख्या-स हि जीव: नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किम् , अव्याबाधं सुखं लभत इति गाथार्थः ॥ इत्थं पारम्पर्येणाव्याबाधसुखार्थ सामायिकश्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वारमधुना व्याख्यायत इति, आह चपञ्चयणिक्खेबो खलु दव्वंमी तत्तमासगाइओ। भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥७४९ ॥
व्याख्या-प्रत्याययतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तन्निक्षेपः-तभ्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रहः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः-तक्षमाषकादिरेव, तजो वा प्रत्याय्यपुरुषप्रत्यय इति, भावम्मि' ति भावे विधार्यमाणेऽवध्यादिविविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदिशब्दान्मनःपर्यायकेवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थ विस्तरभयादिति, 'प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं' ति भावप्रत्ययेनेति गाथार्थः॥ अत एवाहकेवलणाणित्ति अहं अरहा सामाइयं परिकहेई । तेसिपि पचओ खलु सधण्णू तो निसामिति ॥७५०॥दारं॥
व्याख्या-केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, 'तेषामपि' श्रोतणां गणधरादीनां हृद्ताशेषसंशयपरिच्छित्या 'प्रत्ययः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं-'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तत्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ? ॥१॥' इत्यादि, तध्युदस्तं वेदितव्यम् , अन्यथा चतुर्वेद पुरुषे लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सञ्जातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः ॥ गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनामं ठवणा दविए सरिसे सामण्णलक्खणागारे । गइरागइ णाणती निमित्त उपाय विगमे य ॥ ७५१ ॥
व्याख्या-लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्यतिरिकं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धमोस्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्सादृश्यसामान्यादिलक्षणभेदतो निरूप सादृश्यं लक्षणम्, इहत्यघटसदृशः पाटलिपुत्रको घट इति, 'सामन्नलक्खणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्व्यजीवमुक्तादिधमै सामान्यमिति, 'आगारे' त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवा. न्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च-"आकारैरिशितैर्गत्या, चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं
जीवपुदलगतं गस्यादि, तस्य धर्मास्तिकायादिकायस्वात् तल्लक्षणता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340