Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 228
________________ ॥२१७॥ मावश्यक-हारिभद्रीयवृत्तिः ती' ति कौण्डिन्यकोट्टवीरं तस्मात् , परम्परास्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, बोटिकदृष्टिरध्याहरणीयेति गाथार्थः ॥ साम्प्रतं निह्नववक्तव्यतां निगमयन्नाह एवं एए कहिया ओसप्पिणीए उ निण्या सत्त । वीरवरस्स पवयणे सेसाणं पव्वयणे णस्थि ॥ ७८४ ॥ ___ व्याख्या-'एवम् उक्तेन प्रकारेण 'एते' अनन्तरोक्काः 'कथिताः' प्रतिपादिताः, अवसर्पिण्यामेव निवाः सप्त अमी स्य 'प्रवचने' तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नस्थित्ति न सन्ति, यद्वा नास्ति निवसत्तेति गाथार्थः॥ मोत्तुणमेसिमिक सेसाणं जावजीविया दिही । एक्केकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ ७८५ ॥ व्याख्या-मुक्त्वैषामेकं गोष्ठामाहिलं निहवाधर्म 'शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति ?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वान्मा भूत् कश्चित् तथैव प्रतिपदेत (तेति), अतो ज्ञाप्यते-निहवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तो' त्ति अतोऽमीषां मध्ये द्वै द्वौ दोषौ विज्ञातव्यो, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः. परस्परतो यथाऽऽहुबेहुरता जीवप्रदेशिकान्-भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथ-एकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिलमधिकृत्यैकैकस्य त्रयो दोषा इति यथाहुबहुरतान् गोष्ठामाहिला:-दोषत्रयाद् भवन्तो मिथ्यादृष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावजीवं च प्रत्याख्यानमिति गाथार्थः ॥ तता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह सत्तेया दिट्ठीओ जाइजरामरणगम्भवसहीणं । मूलं संसारस्स उ भवंति निर्गयरवेणं ॥७८६ ॥ व्याख्या-सप्तैता दृष्टया, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीना'मिति, जातिग्रहणामारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं 'मूलं' कारण, भवन्तीति योगः, मा भूत् समाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह-'संसारस्स उ' संसरणं संसार:-तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदी| गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थः॥ आह-एते निहवाः किं साधवः ? उत तीर्थान्तरीयाः ? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्यर्थाय कृतमशनादि शेषाणामकल्प्यं, नेवं निहवानामिति, आह च पवयणनीहयाणं जं तेर्सि का रियं जहिं जत्थ । भज्नं परिहरणाए मूले तह उत्तरगुणे य ॥ ७८७ ॥ __ व्याख्या-पवयणनीहूयाणं'ति निहूयंति देशीवचनमकिश्चित्करार्थे, ततश्च प्रवचन-यथोक क्रियाकलापं प्रत्यकिचित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् 'भाज्यं' विकल्पनीयं परिहरणया, कदाचित परिहियते कदाचिन्नेति, यदि लोको न जानाति यथैते निहवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदा थवा परिहरणा-परिभोगोऽभिधीयते, यत उक्तम्-"धारणा उवभोगो परिहरणा तस्स परिभोगो" तत्र भाज्यं 'मूले' मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृही धारणमुपभोगः परिहरणं तस्य परिभोगः.. तलिङ्गत्वात् , नापि तीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तदर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत इति गाथार्थः ॥ आह-बोटिकानां यत् कारितं तत्र का वार्ता ?, उच्यतेमिच्छादिट्ठीयाणं जं तेसिं कारियं जहिं जस्थ । सव्वंपि तयं सुद्धं मूले सह उत्तरगुणे य ॥ ७८८ ॥ दारं ॥ __ व्याख्या-'मिथ्यादृष्टीनां' बोटिकानां 'यत्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धं -कल्प्यमिति भावना, मूलगुणविषयं तथोत्तरगुणविषयं चेति गाथार्थः ॥ उक्तं समवतारद्वारम् , अधुनाऽनुमतद्वारं व्याख्यायते-तत्र यद्यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाहतवसंजमो अणुमओ निग्गंथं पथयणं च वषहारो । सहजुसुयाणं पुण निव्वाणं संजमो चेव ॥७८९ ॥ दारं ॥ ___ व्याख्या-तापयतीति तपः तपःप्रधानः संयमस्तपःसंयमः असौ 'अनुमतः' अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम्-आईतमिति भावना, किं ?-प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, 'ववहारो' त्ति एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच्च तदधोवर्तिनगमसंग्रहनयद्वयमपि गृहीतं वेदितव्यं, ततश्चैतदुक्तं भवतिनैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते, तपासंयमग्रहणाच्चारित्रसामायिकं, प्रवचनग्रहणाद् श्रुतसामायिकं, घशब्दात् सम्यक्त्वसामायिकम् , आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्ग एव निर्वाणं संयम एवेत्यनुमतम् , ऋजुसूत्रमुल्लङ्घयादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः, एतदुक्तं भवति-ऋजुसूत्रादयः सर्वे चारित्रसामायि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340