Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
२४२॥
मावश्यक-हारिभद्रीयवृत्तिः 'जघन्य अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ ८५४ ॥ तत्रास्मादेवाविरहद्वारा विरहकाला प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यतेसुयसम्म सत्तयं खलु विरयाविरईय होइ पारसगं । विरईए पन्नरसगं विरहियकालो अहोरता ॥ ८५५ ॥
व्याख्या-श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः 'सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं कचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशक' देशविरतरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, जघन्यतस्तु त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं, जघन्यतस्तु समयत्रयमेवेति गाथार्थः ॥ ८५५ ॥ साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाहसम्मत्तदेसविरई पलियस्स असंखभागमेत्ताओ। अट्ठ भवा उ चरित्ते अणंतकालं च सुयसमए ॥ ८५६ ॥
व्याख्या-सम्यक्त्वदेशविरतिमन्तः मतुब्लोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् क्षेत्रपल्योपमस्यासमययभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जघन्यतस्त्वेकर, अष्टौ भवाः 'चारित्रे' चारित्रे विचार्य, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, अणंतकालंग सुयसमए' त्ति 'अनन्तकालः' अनन्तभवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यस्त्वेकभवमेव, मरुदेवीवेति गाथार्थः ॥८५६॥ द्वारम् ॥ साम्प्रतमाकर्षद्वारमधिकृत्याहतिण्ह सहस्सपुहुत्तं सयापुरत्तं च होइ विरईए । एगभवे आगरिसा एवतिया होति नायव्वा ।। ८५७॥ व्याख्या-आकर्षणम् आकर्षः-प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः, जघन्यतस्त्वेक एवेति गाथार्थः ॥ ८५७ ॥ तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । णाणभवे आगरिसा एवइया होंति णायव्वा ॥ ८५८ ॥ ___ व्याख्या-त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्राण्यसङ्ख्येयानि, सहस्रपृथक्त्वं च भवति विरते, पतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-दोण्ह सहस्समसंखा' तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहनपृथक्त्वमाकर्षाणामुक्तं, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसोयानीति, सहस्रपृथक्त्वं चेत्थं भवति-विरतेः खल्वेकभवे शतपृथक्त्वमाकोणामुक्तं, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं महसूपृथक्त्वं भवतीत्यवयवार्थः ॥ ८५८ ॥ द्वारं ॥ स्पर्शनाद्वारमधुना, तत्रेयं गाथासम्मत्तचरणसहिया सव्वं लोगं फुसे गिरवसेसं । सत्त य चोहसभागे पंच य सुयदेसविरईए ।। ८५९ ॥ __ व्याख्या-'सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति, किं बहिात्या !.
प्रसयातप्रदेशमपि. एते च केवलिसमदघातावस्थायामिति, जघन्यतस्त्वसयभागमिति । तथा'सत्त य चोहसभागे पंच य सुयदेसविरईए' त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पधमानाः, चशब्दात् व्यादींश्चान्योति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ ८५९ ॥ एवं क्षेत्रस्पर्शनोका, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिक ? कियद्भिर्जीवैः स्पृष्टमित्याह
सव्वजीवहिं सुयं सम्मचरित्ताइं सव्वसिद्धेहिं । भागेहि असंखेनहिं फासिया देसविरईओ ।। ८६० ॥ __ व्याख्या-सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः सामान्य श्रुतं स्पृष्टं, सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे, तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, भागैरसङ्ख्येयैः सिद्धभागैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानां बुद्ध्याऽसङ्ख्ययभागीकृतानामसङ्ख्येयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः ॥ ८६०॥ द्वारम् ॥ इदानीं निरुक्तिद्वार, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्किा, तत्र सम्यक्त्वसामायिकनिरुक्तिमभिधित्सुराहसम्मद्दिहि अमोहो सोही सम्भाव देसणं योही। अविवंजओ सुदिद्वित्ति एवमाई निरुत्ताई ॥ ८६१ ॥ व्याख्या-सम्यक् इति प्रशंसार्थः, दर्शन-दृष्टिः, सम्यगु-अविपरीता दृष्टिः-सम्यग्दृष्टिः, अर्थानामिति गम्यते,
__ * प्रतिप्रदेशब्याहयेत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340