Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 305
________________ ॥२९॥ भाषश्यक हारिभद्रीयवृत्तिः दिग्द्वयप्रसारणान्मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्त. राण्यपूरितानि भवन्ति, अनुश्रेणिगमनात्, चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्कक्रमात् प्रतिलोमं मन्थान्तराणि संहरति-जीवप्रदेशान् पकमेकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सकोचात्, अष्टमसमये दण्डमुपसंहृत्य शरीरस्थ एव भवति । अमुमवार्थ चेतसि निधायोकंदण्डकपाट मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात,न चैतत् स्वमनीषिकाव्याख्यानं, यत उकम्-प्रथमे समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमय तृतीये लोकव्यापी चतुर्थे तु ॥ १॥ संहरति पश्चमे त्वन्तराणि मन्थानमथ पुनः पष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२॥" इति । तस्येदानी समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाकायाः, अत्रैषां कः कदा व्याप्रियते, तत्र हि मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् , काययोगस्यैव केवलस्य व्यापारम्, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रा, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम्-"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ॥२॥" इति, कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः १-परित्यक्तसमुद्घातः कारणवशा योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिन योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोग सत्यं वाऽसत्यामृषं था प्रयुते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोsन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु पद्भिर्मासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् , एवं च सति ग्रहणमपि स्थाद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिवृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापार निरुध्य च 'पजत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । य जम्मत्तो॥१॥ तदसंखगणविहीणं समए २ निरंभमाणो सो। मणसो सबनिरोह करेजा संखेजसमएहिं ॥२॥पज्जत्तमेत्तवेदियजहन्नवयजोगपजया जे य। तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥ सधवाइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणगस्स पढमसमयोववन्नस्स ॥४॥ जो किर जोगो तदसंखेजगुणहीणमेकिके। समए निरंभमाणो देहतिभागं च मुंचंतो॥५॥ रंभइ स कायजोगं संखाईएहि चेच समएहिं। पर्याप्तमाससंज्ञिनो यावन्ति जघन्ययोगस्य । भवन्ति मनोव्याणि तळ्यापारश्च यावन्मात्रः ॥ तदसंख्यगुणविहीनं समये समये निरुन्धन् सः । मनसः सर्यनिरोधं कुर्यादसण्येयसमयैः ॥२॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचःपर्यंवा यावन्तः। तदसहध्येयगुणविहीनान् समये समये निरुन्धन् ॥३॥ सर्ववचोयोगरोधं संख्यातीतः करोति समयः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥४॥ यः किल जघन्यो योगस्तदसझयेरगुणहीनमें केकसिन् । समये निरुन्धन् देह निभामंच नुञ्चन् ॥ ५॥ रुणद्धि स काययोग संख्यातातरेव समः। तो कयजोगनिरोहो सेलेसी भावणामइ ॥६॥त्ति' ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽयमित्यण शैल:-पर्वतस्तेषामीश:-प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति : सन्नभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या इस्वपञ्चाक्षरोगिरणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा ऋजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ ९५५ ॥ अनन्तरगाथोपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति कात्रोपपत्तिरिति', उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत आह जह उल्ला साडीआ आसुंसुका विरल्लिआ संती। तह कम्मलहुअ समए वचंति जिणा समुग्घायं ॥९५६॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, 'आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरलिता' विस्तारिता सती भवति, तथा तेऽपि प्रयत्नविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः 'कर्मलघुतासमये व्रजन्ति जिनाः समुद्घात'मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता-स्तोकतेत्यर्थः, तस्याः समय:-कालः कर्मलघुतासमया, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिर्लघुता कर्मलघुता, जीवस्येति १ ततः कृतबोगनिरोधः शैलेशीभावनामेति ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340