Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
भावश्यक-हारिभद्रीयवृत्तिः उत्ति उवओगकरणे वसिम पावपरिवजणे होइ । मति अशाणस्स कए उत्ति अ ओसकणा कम्मे ॥ ९९९॥
व्याख्या-निगदमिद्धा, नवरमुपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ॥९९९॥'उबझायनमोकारों' ४ इत्यादिगाथापूगः सामान्येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥
उक्त उपाध्यायनमस्काराधिकारः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलपितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनाम १ ठवणासाहू २ व्यसाह अ३ भावसाहू अ४। दवंमि लोइआई भावंमि अ संजओ साह ॥१०॥ व्याख्या-वस्तुतो गताथैवेति न विवियते ॥ द्रव्यसाधून प्रतिपादयन्नाहघडपडरहमाईणि उ साहंता हुंति व्वसाहुत्ति । अहवावि व्वभूआ ते हुंती व्वसाहुत्ति ॥ १००१॥ व्याख्या-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून प्रतिपादयन्नाहनिव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥१००२॥ व्याख्या-निर्वाणसाधकान् 'योगान्' सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्यात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत् , तस्मात्ते भावसाधव इति गाथार्थः ॥ १००२॥ किं पिच्छसि साहूणं तवं व निअम व संजमगुणं वा । तो वंदसि साहूणं? एअं मे पुच्छिओ साह ॥१००३ ॥
व्याख्या-निगदसिद्धा ॥ विसयमुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सायकिलयाण नमो॥१००४॥ व्याख्या-निगदसिद्धैव, असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूर्ण ॥१००५॥ व्याख्या-परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयम कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ॥ १००५ ॥'साहूण नमोकारो४ इत्यादिगाथाविस्तरः
येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुखोनेय इति कृतं प्रसङ्गेन । उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवाथेप्रचिकटिषयेदमाह
नेवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽणेगविहो पंचविहोन जुजई तम्हा ॥१००६॥ व्याख्या-इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितो लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोउंशकः इत्यतोऽपंपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थों द्रष्टव्यः, 'णवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवचतुर्दश पूर्वाणि, इदं
०२ साहण. ३ इतः प्राकू 'एसो पंचनमुकारो' इत्यादिझोका पुस्तकादशेषु, न च वृत्तौ म्याख्यातः सूचितो वा सः। पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धा, 'संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इनि-द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, कथं १, परिनिर्वतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलच्य वर्तन्त इति, तदभावे शेषगुणाभावात् , अतस्तन्नमस्कार एवेतरनमस्कारभावात् , अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्रामोति, तथा च ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशत्यहद्भयः, तथा सिद्धेभ्योऽपि विस्तरेण-अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः
यतृतीयसमयादिसायेयासमयेयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यतश्चैवमत आह-पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पश्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थः ॥१००६ ॥ गतमाक्षेपद्वारम् , अधुना प्रसिद्धिद्वारावयवार्थ उच्यते--तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न, संक्षेपात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्धसाधुमात्रक एवोक्तः, सत्यमुक्कोऽयुतस्त्वसौ, कारणान्तरस्यापि भावात् , तच्चोक्तमेव, अथवा वक्ष्यामः 'हेतुनिमित्त'मित्यादिना, सति च दैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात् , तथा चाऽऽह
अरहंताई निअमा साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवह सिद्धो॥१००७॥ ____ व्याख्या-इहाहेदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् , साधवस्तु तेषु' अर्हदादिषु 'भक्तव्याः' विकल्प.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340