Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥ ३०८ ॥
आवश्यक हारिभद्रयवृत्ति'
व्याख्या - इह 'सर्वग्रहो भययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य व 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? रात आह- उत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ॥ भावार्थस्त्वयं- 'संघातंतर समयो समयमयरस तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥ १ ॥ अविग्रहेण सङ्घातयतः द्वितीयसङ्घातपरिशाटस्य समय एवान्तरनिति, 'उभयस्स चिरविउबिय मयस्स देवे सविग्गह गयरस । साडस्संमुहुतं तिहवि तरुकालमुकोसं ॥ १ ॥' उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाहआहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुकोसयं च अंतोमुहुतं तु ॥ १७० ॥ ( भा० )
व्याख्या- 'आहार' इत्याहारकशरीरे सङ्घातः - प्राथमिको ग्रहः परिशाटश्च - पर्यन्ते मोक्षश्च, कालतः 'समय' कालविशेष 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत उत्कृ ष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्र कालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टासु जघन्यो लघुतरो वेदितव्य इति गाथार्थः ॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह
बंधणसाडुभयाणं जहनमंतोमुहुतमंतरणं । उक्कोसेण अब पुग्गलपरिअट्टदेसूणं ॥ १७१ ॥ ( भा० )
१ संघातान्तरं समयो द्विसमयवैकियमृतस्य तृतीये । स दिवि संघातयतः तृतीये वा मृतस्य तृतीये ॥ १ ॥ २ उभयस्य चिरविकुर्वितमृतस्य देवे सविग्रहं गतस्य । शाटस्यान्तर्मुहूर्त्तं प्रयाणामपि तरुकालमुत्कृष्टम् ॥ १ ॥
व्याख्या - बन्धनं- सङ्घातः शाटः- शाट एव उभयं सङ्घातशाटौ अमीषां बन्धनशाटोभयानां 'जघन्यं' सर्वस्तोकम 'अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्त विरहकालः सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षतः अर्द्धपुङ्गपरावर्ती देशोनोऽन्तरमिति, सम्यग्दृष्टिकाल स्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ॥ उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृत्याऽऽह
ते आकम्माणं पुण संताणाणाइओ न संघाओ । भव्वाण हुज साडो सेलेसीचर मसमयंमि ॥ १७२ ॥ (भा० ) व्याख्या - तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात् किं ?, न सङ्घातः-न तत्प्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति १, अत आह— शैलेशीचर मसमये, स चैकसामायिक एवेति गाथार्थः ॥
उभयं अणाइनिहणं संतं भव्वाण हुज के सिंचि । अंतरमणाइभावा असंतथि ओगओ नेसिं ॥ १७३ ॥ (भा०)
व्याख्या --- ' उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाथनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ॥ १७३ ॥ अथवेदमन्यज्जीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च
4
अहवा संवाओ ? साडणं चरउभयं ३ तहो भयनि सेहो ४ । पड़ १ संख २ सगड २ थूणा ४ जीवपओगे जहासंखं १७४
व्याख्या – अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, 'सङ्घात' इति सङ्घातकरणं, 'सातनं च' शातनकरणं च 'उभयं' सङ्घातशातनकरणं ' तथोभयनिषेध' इति सङ्घातपरिशाटशून्यम् । अमीषामेवोदाहरणानि दर्शयन्नाह - पटः शङ्खः शकटं स्थूणा, 'जीवप्रयोग' इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि - पटस्तन्तुसङ्घातात्मकत्वात् सङ्घातकरणं शङ्खस्त्वेकान्तसाटकरणादेव शाटकरणं शकटं तक्षणकीलिकादियोगादुभयकरणं स्थूणा पुनरूर्ध्वतिर्यकरणयोगात् संघात शाटविरहादुभयशून्या इति गाथार्थः ॥ उक्तं जीवप्रयोगकरणम्, आह- 'जं जं निज्जीवाणं कीरइ जीवओगओ तं तं ' इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न अभिप्रायापरिज्ञानाद्, इहादावेवाथवाशब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेतदुक्तं, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करणं जीवप्रयोग करणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन ॥ उक्तं द्रव्यकरणं, साम्प्रतं क्षेत्रकरणस्यावसरः, तत्रेयं निर्युक्तिगाथावित्तस्स नत्थि करणं आगासं जं अकिप्तिमो भावो । वंजणपरिभवनं तहावि पुण उच्छुकरणाई ॥ १०९७ ॥
अस्या व्याख्या - इह 'क्षेत्रस्य' नभसः 'नास्ति करणं' निर्वृत्तिकारणाभावान्न विद्यते करणं मुख्यवृत्त्या 'आकाश' क्षेत्रं 'यद्' यस्मात् 'अकृत्रिमो भावः' अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः । आहयद्येवं किमिति नियुक्तिकारेण निक्षेपगाधायामुपन्यस्तमिति १, अत्रोच्यते, व्यञ्जनपर्यायापनं तथापि पुनरिक्षुकरणाद्यस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गलाः गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापनं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340