Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥३० ॥ मावश्यक-हारिभद्रीयवृत्तिः नीयाः, यतस्ते न सर्वेऽहंदादयः, किं तर्हि १, केचिदहन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदा, केषिदुपाध्यायाः सूत्रविद एव, केचिदेतव्यतिरिकाः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्यात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पश्चविध एव नमस्कारः, खलुशब्दस्यावधारणार्थत्वात्, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा-'हेतुनिमित्तं भवति सिद्ध' इति, तत्र हेतुर्नमस्काराहत्वे य उक्तः 'मग्गे अविप्पणासोति इत्यादि तन्निमित्तं चोपाधिभेदागवति सिद्धः पञ्चविध इति गाथार्थः ॥ १००७ ॥ गतं प्रसिद्धिद्वारम्, अधुना क्रमद्वारावयवार्थ प्रतिपादयन्नाहपुव्वाणुपुश्वि न कमो नेव य पच्छाणुपुब्धि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥१००८ ॥
व्याख्या-इह क्रमस्तावद् द्विविधा-पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जस. त्वात्, तत्रायमर्हदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानादू, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धानां
ग्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्येष क्रमो भवेत, साध्वाधन भिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवा, ततश्र तानभिधाय यदि पर्यन्त सिद्धाभिधानं स्यात् स्यात् पश्चानुपूवीति, तथा चामुमेवार्थ प्रतिपादयन्नाह-सिद्धाद्या प्रथमा-पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूसाधव आदौ, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ॥ १००८ ॥ साम्प्रतं पूर्वानुपूर्षीत्वमेव प्रतिपादयन्नाह
अरहंतुवएसेणं सिखा नजति तेण अरिहाई । नवि कोई परिसाए पणमित्ता पणमई रण्णो ॥ १००९॥ व्याख्या-इह 'अहंदुपदेशेन' आगमेन सिद्धाः 'ज्ञायन्ते' अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः सन्तो यतस्तेनाईदा. दिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चाहतामभ्यर्हितत्वं, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, तथा अर्हन्नमस्कार्यत्वमप्यसाधनम् , अहन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात् प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तहि क्रमः प्राप्तः, अर्हतामपि तदुपदेशेन संवित्तेरिति, अत्रोच्यते, न, इहार्हत्सिद्धयोरेवायं वस्तुतस्तुल्यबलयोर्विचारः श्रेयान्, परमनायकभूतत्वाद्, आचार्यास्तु तत्परिषत्कल्पा वर्तन्ते, नापि कश्चित् परिषदं 'प्रणम्य' प्रणामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः ॥१००९ ॥ उक्तं क्रमद्वारम्, अधुना प्रयोजनफलप्रदर्शनायेदमाहइत्थ य पोषणमिणं कम्मखओ मंगलागमो चेव । इहलोअपारलोइस दुविह फलं तस्थ दिलुता ॥१०१०॥
व्याख्या-'अत्र च' नमस्कारकरणे प्रयोजनमिदं-यदुत करणकाल एवाक्षेपण 'कर्मक्षयः' ज्ञानावरणीयादिकर्मापगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्थाप्यप्राप्तेरित्यादिभावितं. तथा मङ्गलागमश्चैव तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्न 'द्विविधं फलं' द्विप्रकारं फलं, 'तत्र दृष्टान्ताः' वक्ष्यमाणलक्षणा इति गाथार्थः॥ १०१०॥ इहलोइ अत्थकामारआरुग्गं३अभिरई४ अनिष्फत्तीसिद्धी असग्गसुकुलप्पञ्चायाई८अपरलोए॥१०११॥
व्याख्या-इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह-अभिरतिश्च भवति, आभिमुख्येन रतिः-अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वानिष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च, तथा स्वर्गःसुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं॥ इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि-विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनुभवन्तीति गाथार्थः ॥१०११ ॥ साम्प्रतं यथाक्रममेवादीनधिकृत्योदाहरणानि प्रतिपादयन्नाह- .. इहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ हुंडिअजकलो५ अदिता।१.१२॥
व्याख्या-अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि-नमोकारो अत्यावहो, कहंति', उदाहरणं-जहा एगस्स सावगस्स पुत्तो धम्म न लएइ, सोऽवि सावओ कालगओ, सो विहाराहओ एवं चेव विहरइ। अन्नया तोस घरसमीवे परिवायओ आवासिओ, सो तेण समं मित्तिं करेइ, अन्नया भणइ-आणेहि निरुवयं अणाहमडयं जओ ते इसरं करेमि, तेण मग्गिओ लद्धो उबद्धओ मणस्सो, सो मसाणं णीओ, जं च तत्थ पाउग्गं । सो य दारओ
यःकरणकालभावीति,
नमस्कारोऽयोवहः, कथमिति', उदाहरणम्-चथैकस्य श्रावकस्य पुत्रो धर्म नाश्रयति, सोऽपि श्रावका कालगतः, स व्यवहाराहत एवमेव विहरति । भम्पदा वेषां (बावकजनाना) गृहसमीपे परिवाजक भावासितः, स तेन समं मैत्री करोति, अभ्यदा भणति-आनय निरुपहवं अनाथमृतक यतस्त्वां ईश्वर करोति, तेन मार्गिकधदरोमनुष्यः, सश्मशानं नीतः, यत्र तत्र प्रायोग्यासच वारक: * .ऽविवाहिराहो (व्यसनोपहतः)। Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340