Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 304
________________ भावश्यक-हारिभद्रीयदृत्तिः ॥२९॥ भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छन्दः सर्वनामस्वादुद्देशवचनः, यस्कर्मेत्थंप्रकार, तुशन्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेष कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसमयानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्-अल्पं कृतमिति भावः, प्राककिभूतं सच्छेषितम् । इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं 'सित वर्णबन्धनयो'रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म ध्मातं, 'धमा शब्दाग्निसंयोगयो'रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ?-सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमेनाऽऽविर्भवति तत्वतः तथाऽपि लौकिकवाचोयुक्त्या व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्व भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके-'दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित् , स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥' इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्याप्यसिद्भूत्वात् , तथाहि-तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवा ऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रया-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति भवे-संसारे मवो भव्यः अभव्य इत्यर्थः । दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यकर्म 'सेसित' मिति श्लेषितमिति संश्लिष्टं लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत् , अथवाऽन्यथा व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वादा रज इत्युच्यते, यदन्यकर्मेति च नैवं व्याख्यायते, साक्षात्कर्माभिधानेन सर्वनानो निरर्थकत्वात् , प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभब्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तु:-जीवस्तस्य कर्म जन्तुकर्म,अनेनावअकर्मव्यवच्छेदमाह, तब से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशुभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः॥प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि-विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोष, न चैतत् स्वमनीषिफयैवोच्यते, यत आह नियुक्तिकारःनाऊण अणिजं अहबहुअं आउअं च थोवागं । गंतूण समुग्घायं खवंति कम्मं निरवसेसं ॥ ९५४ ॥ व्याख्या-'ज्ञात्वा' केवलेनावगम्य, किं १ वेदनीयं कर्म, किंभूतं ?-'अतिबहु' शेषभवोपग्राहिकर्मापेक्षयाऽतिप्रभूवमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्घातम्' इति सम्यगअपु वनोत्-प्राबल्येन कर्मणो हननं घात:-प्रलयो यस्मिन् प्रयाविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाश यन्ति 'कर्म' वेदनीयादि 'निरवशेषम्' इति निरवशेषमिव निरवशेष प्रभूततमक्षपणाच्छेषस्य चान्तर्मुहर्तमात्रकालावधित्वात्, किश्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह-ज्ञात्वा वेदनीयमतिबहि'त्यत्र को नियमः १ येन तदेव बहु (अं० ११०००) तथाऽऽयुष्कमेवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्वन्ध कत्वादायुष्कस्य चाल्पत्वात् , उक्तं च-जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अहविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधए' आयुष्कस्य त्वान्तर्मुहूर्तिक एव बन्धकाल इति, उक्तं च-"सिय तिभागे सिय तिभागतिभागे” इत्याद्यलं प्रसङ्गेनेति गाथार्थः ॥९५४ ॥ इदानी समुद्घातादि. स्वरूपप्रतिपादनायैवाऽऽह दंड कवाडे मंयंतरे अ साहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्मणा चेव ॥ ९५५ ॥ व्याख्या-वह समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तौहूर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपण्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रमः-इह प्रथमसमय एव स्वदेहविष्कम्भतुल्यविष्कम्भमूर्ध्वमपक्षाऽऽयतमुभयतोऽपि लोकान्तगामिनंजीवप्रदेशसङ्घातं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिगद्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर . यावदयं जीव एजते म्बेजते चलति स्पन्दते तावदृष्टविधबन्धको धा सप्तविधवन्धको वा पविधबन्धको वा एकविधवन्धको वा मानन्धकः ।। विभागे स्थानिभागत्रिभागे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340