________________
भावश्यक-हारिभद्रीयदृत्तिः
॥२९॥ भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छन्दः सर्वनामस्वादुद्देशवचनः, यस्कर्मेत्थंप्रकार, तुशन्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेष कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसमयानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्-अल्पं कृतमिति भावः, प्राककिभूतं सच्छेषितम् । इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं 'सित वर्णबन्धनयो'रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म ध्मातं, 'धमा शब्दाग्निसंयोगयो'रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ?-सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमेनाऽऽविर्भवति तत्वतः तथाऽपि लौकिकवाचोयुक्त्या व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्व भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके-'दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित् , स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥' इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्याप्यसिद्भूत्वात् , तथाहि-तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवा ऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रया-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति
भवे-संसारे मवो भव्यः अभव्य इत्यर्थः । दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यकर्म 'सेसित' मिति श्लेषितमिति संश्लिष्टं लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत् , अथवाऽन्यथा व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वादा रज इत्युच्यते, यदन्यकर्मेति च नैवं व्याख्यायते, साक्षात्कर्माभिधानेन सर्वनानो निरर्थकत्वात् , प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभब्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तु:-जीवस्तस्य कर्म जन्तुकर्म,अनेनावअकर्मव्यवच्छेदमाह, तब से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशुभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः॥प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि-विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोष, न चैतत् स्वमनीषिफयैवोच्यते, यत आह नियुक्तिकारःनाऊण अणिजं अहबहुअं आउअं च थोवागं । गंतूण समुग्घायं खवंति कम्मं निरवसेसं ॥ ९५४ ॥
व्याख्या-'ज्ञात्वा' केवलेनावगम्य, किं १ वेदनीयं कर्म, किंभूतं ?-'अतिबहु' शेषभवोपग्राहिकर्मापेक्षयाऽतिप्रभूवमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्घातम्' इति सम्यगअपु वनोत्-प्राबल्येन कर्मणो हननं घात:-प्रलयो यस्मिन् प्रयाविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाश यन्ति 'कर्म' वेदनीयादि 'निरवशेषम्' इति निरवशेषमिव निरवशेष प्रभूततमक्षपणाच्छेषस्य चान्तर्मुहर्तमात्रकालावधित्वात्, किश्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह-ज्ञात्वा वेदनीयमतिबहि'त्यत्र को नियमः १ येन तदेव बहु (अं० ११०००) तथाऽऽयुष्कमेवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्वन्ध कत्वादायुष्कस्य चाल्पत्वात् , उक्तं च-जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अहविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधए' आयुष्कस्य त्वान्तर्मुहूर्तिक एव बन्धकाल इति, उक्तं च-"सिय तिभागे सिय तिभागतिभागे” इत्याद्यलं प्रसङ्गेनेति गाथार्थः ॥९५४ ॥ इदानी समुद्घातादि. स्वरूपप्रतिपादनायैवाऽऽह
दंड कवाडे मंयंतरे अ साहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्मणा चेव ॥ ९५५ ॥ व्याख्या-वह समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तौहूर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपण्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रमः-इह प्रथमसमय एव स्वदेहविष्कम्भतुल्यविष्कम्भमूर्ध्वमपक्षाऽऽयतमुभयतोऽपि लोकान्तगामिनंजीवप्रदेशसङ्घातं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिगद्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर
. यावदयं जीव एजते म्बेजते चलति स्पन्दते तावदृष्टविधबन्धको धा सप्तविधवन्धको वा पविधबन्धको वा एकविधवन्धको वा मानन्धकः ।। विभागे स्थानिभागत्रिभागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org