Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥२५३॥
आवश्यक दारिभद्रीयवृत्तिः
यथाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा ण छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दवनमोक्कारो भविस्सह, दमगत्थाणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासुरत्याणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दबनमोकारो । 'भावोवउत्त जं कुज्ज सम्मद्दिट्ठी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात् ' यत् करोति शब्दकियादि सम्यग्दृष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिषिनेय जनानुग्रहार्थं च नोक्तमिति ॥ द्वारं ॥ पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच्च पञ्चधा - नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं खल्विति नैपातिकं, परीत्योपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्रं, एवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह- 'नेवाइयं पयं' सि निपतत्य - दादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदं ॥ द्वारम् ॥ पदार्थद्वारमधुना-तत्र गाथावयवः 'दबभावसंकोयणपयत्थो' त्ति नम इत्येतत् पूजार्थ'णम प्रहृत्वे' धातुः 'उणादयो बहुल' ( पा० ३-३-१ ) मित्यसुन, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्गचतुष्टयं द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनुत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न १ राजस्थानीय स्तीर्थकरः, अन्तःपुरस्थानीयाः षट् कायाः, अथवा न षट् काया: किं तु शङ्कादीनि पदानि मा श्रेणिकादीनामपि दृश्यनमस्कारो भूद्र दमकस्थानीयाः साधवः, कच्छूक्ष्थानीयं मिध्यात्वं, भास्वरस्थानीयं सम्यक्त्वं, दण्डो विनिपातः संसारे, एष प्रम्यनमस्कारः * यजनानु० प्र०
द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थः ॥। ८९० ॥ द्वारं ॥ प्ररूपणाद्वारप्रतिपादनायाऽऽह
विहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो ।
किं १ कस्स २ केण व ३ कर्हि ४ किचिरं ५ कइविहो व ६ भवे ।। ८९१ ।।
व्याख्या- 'द्विविधा' द्विप्रकारा प्रकृष्टा-प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति द्वैविध्यं दर्शयति-षट्पदा च नवधा च - नवप्रकारा नवपदा 'चेत्यर्थः चशब्दात् पश्चपदा व तत्र 'छप्पया इणमो' षट्पदेयं षटूपदा इदानीं वा, किं? कस्य ? केन ? वा ? कियच्चिरं ? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः ॥ ८९१ ॥ तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह
किं ? जीवो तप्परिणओ (दा० १) पुग्वपडिवन्नओ उ जीवाणं । जीवस्स व जीवाण व पडुच परिवज्रमाणं तु||८९२ ॥
व्याख्या - किंशब्दः क्षेपप्रश्ननपुंसक व्याकरणेषु तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिकं ? को नमस्कारः ?, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाहजीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽहुस्तन्मतावलम्बिनः- पुरुष एवेदं सर्वं यद्भूतं यच भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती'त्यादि, तथा तमयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीब, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कधापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तत्मानोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोप्रामोऽपि भावनीयः, नवरं ग्रामः चतुर्दशभूतग्रामसमुदाय:, यथोक्तम्- “ऐगिंदिय सु.हुमियरा सन्नियरपर्णिदिया सबितिचऊ । पज्जत्तापजत्ता भेदेणं चोदसग्गामा ॥ १ ॥” अलंप्रसङ्गेन, प्रकृतं प्रस्तुमः - सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिकृत्याह - 'तपरिणओ' जीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः । एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रह व्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नमस्कारः, व्यवहारस्य व्यवहारपरत्वाद् बहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रतिपचमानकाङ्गीकरणतोऽभीष्टमर्थं निरूपयन्नाह - 'पुवपडिवन्नओ उ जीवाणं' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते - यस्मान्नमस्कार्यनमस्कर्तृद्वयाधीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कार क्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत, तथाहि न दातुर्भिक्षा निष्पादकस्य, अपि तु भिक्षोर्भिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषापेक्षा वशप्रापिता १ एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतराः पञ्चेन्द्रियाः सद्वित्रिचतुष्काः । पर्याप्तापर्याप्तभेदेन चतुर्दश ग्रामाः ॥ १ ॥ * क्षविवक्षावश० प्र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340