Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
पावश्यक-हारिभद्रीयवृत्तिः ।
॥२७१७ तरिच्छिगा भया दोसा, आहारठा तहेव य । अवच्चलेणसंरक्षणठाए ते वियाहिया ॥३॥ पट्टणा पवरणा
व, थंभणा लेसणा तहा । आयसंवेयणीया उ, उवसग्गा चउबिहा ॥४॥" इत्याद्यलं प्रसङ्गेन, एतनामयन्तो नमोऽहो इति व्याख्यातमयं गाथार्थः ॥ साम्प्रतं प्राकृतशैल्याऽनेकधाऽर्हच्छब्दनिरुक्तसम्भवं निदर्शयन्नाह
इंदिययिमयकसाए परीसहे वेयणा उबस्सग्गे । एए अरिणो हंता अरिहंता तेण वुच्चंति ॥ ९१९ ।। व्याख्या-इन्द्रियादयः पूर्ववत् , वेदना त्रिविधा-शारीरी मानसी उभयरूपा च, 'एए अरिणो हंता' इत्यत्र प्राकृतशैल्या छान्दसत्वात् 'सुपा सुपी'त्यादिलक्षणतः एतेषामरीणां हन्तारः यतोऽरिहन्तारः 'तेनोच्यन्ते' तेनाभिधीयन्ते, अरीणां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात् , एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति !, अत्रो. च्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपादनार्थमुपन्यास इति गाथार्थः॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च
अट्टविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुर्चति ॥ ९२०॥ व्याख्या-'अष्टविधमपि' अष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चाव
१ तैरना भयाद्वेषादाहाराय तथैव च । अपत्यलयनसंरक्षणार्थाय ते व्याख्याताः ॥३॥घहना प्रपतनैव स्तम्भनं क्षेषणं तथा । बारमसंवेदनीयान उपसर्गाश्चतुर्विधाः ॥४॥ धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कमैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां' सर्वसत्त्वानामनवबोधादिदुःखहेतुत्वादिति भावः, पश्चार्द्ध पूर्ववत् , एवंविधा अरिहन्तार इति गाथार्थः ॥ ९२०॥ अथवा
अरिहंति वंदणनमंसणाई अरिहंति पूअसक्कारं । सिडिगमणं च अरिहा अरहंता तेण वुचंति ॥९२१ ॥ व्याख्या-'अर्ह पूजायाम्' अर्हन्तीति पचाद्यचू' कर्तरि अर्हाः, किमर्हन्ति ?-वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽहन्ति पूजासत्कारं, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा 'सिद्धिगमनं चाहन्ति' सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-इह बोदि चइत्ता णं तत्थ गंतूण सिज्झई' तद्गमनं च प्रत्यहाँ इति, 'अरहंता तेण बुचंति' प्राकृतशैल्या अस्तेिनोच्यन्ते, अथवा अहंन्तीत्यहन्त इति गाथार्थः॥९२१ ॥ तथा-देवासुरमणुएसुं अरिहा पूआ सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेण वुर्वति ॥९२२॥
व्याख्या--देवासुरमनुजेभ्यः पूजामर्हन्ति-प्रामुवन्ति तद्योग्यत्वात् , सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह-अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ ९२२ ॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति
अरहतनमुकारो जीवं मोएर भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ ९२३ ॥ ___ व्याख्या-अर्हतां नमस्कारःअर्हन्नमस्कार,इहाहच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते,नमस्कारस्तु नमःशब्द एव,
___ * इह तनुं त्यक्त्वा तत्र गत्वा सिध्यति. 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः?-भवसहस्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः, इह च सहस्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रार्थादनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोचयतीत्यादि, उच्यते, यद्यपि तद्भव एष मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय' बोधिलाभार्थ, बोधिलाभश्चाचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः ॥ ९२३ ॥ तथा चाह
अरिहंतनमुकारो धन्नाण भवक्खयं कुणताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ॥ ९२४ ॥ व्याख्या-अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम् , तत्र धन्या:-ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम्-आचरता, किम् ?-'हृदय' चेतः 'अनुन्मुश्चन्' अपरित्यजन् , हृदयादनपगच्छन्नित्यर्थः, विस्रोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः ॥९२४ ॥ अरहंतनमुकारो एवं खलु वण्णिओ महत्थुसि । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ॥ ९२५ ॥
व्याख्या-अहन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्काहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो ‘मरणे' प्राणत्यागलक्षणे उपाग्रे-समीपभूते 'अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340