Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
नावश्यकारिभद्रीपतिः
॥२५॥ मेरुसमो बिन्दुः समुद्रौपम इत्यादि २८, रूपकदोषः स्वरूपाषयवम्यत्ययः, पथा पर्वतरूपावयवाना पर्वतेनानभिधान, समुद्रावयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्लाल्यामोदनं पचतीति वक्तव्ये पचतिशम्दानभिधानं ३०, ‘पदार्थदोषः' यत्र वस्तुपर्यायवाधिनः पदस्यार्थान्तरपरिकल्पनाऽऽ. श्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोषः' विश्लिष्टसंहितत्वं ब्यत्ययो ति ३२ । एभिर्विमुक्तं द्वात्रिंशदोषरहितं लक्षणयुक्त सूत्रं तदिति वाक्यशेषः, 'द्वात्रिंशदोषरहितं यच' इति बचनातच्छन्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणा:
निहोस" सारंवन्तं च हे उत्तमल कियं । उर्षणीर्य सोपारंच मिय" महुरमेव य ॥ ८८५ ॥ व्याख्या-'निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्याय, गोशब्दवत्सामायिकबदा, अम्बयव्यतिरेकलक्षणा हेतवस्तयुक्तम् , 'अलकृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहतं, 'सोपचारम्' अग्राम्याभिधानं, 'मित' वर्णादिनियतपरिमाण, 'मधुर' अवणमनोहरम् । अथवाऽन्ये सूत्रगुणाः
अप्पखरमसंदिवं सौरवं विस्सओमुंहं । अस्थो मणवलं च सुतं सव्वाणुभासियं ॥ ८८६ ॥ व्याख्या-'अल्पाक्षरं' मिताक्षरं, सामायिकाभिधानवत् , 'असंदिग्ध सैन्धवशब्दवालवणघोटकायनेकार्थसंशयकारि न भवति, 'सारवत्' बहुपर्याय, "विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, प्रतिमुखमनेकार्थाभिधायकं वा सारवत् , 'अस्तोभक' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका:-निपाताः, 'अनवयम्' अगी, न हिंसाभिधायक-'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधख बननायूनानि पशुभितिभिः ॥१॥ इत्यादिवचनवत्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । ततम सूत्रानुगमात् सूत्रेऽनुगतेऽनवद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः, ततः सूत्रस्पर्शनियुकिधरमानुयोगद्वारविहिता नया भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकार:-"सुत्तं सुत्ताणुगमो सुत्तालापगकोयनिक्खेवो । सुत्तफासियनिजत्ती गया य समग तु वञ्चति ॥१॥" सूत्रानुगमादीनां घायं विषय:-सपदच्छेदं सूत्रमभिधाय अवसितप्रयोजनो भवति सूत्रानुगमा, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रस्यवस्थानापभिषायेति, तच प्रायो नगमादिनयमतविषयमिति वस्तुतस्तदन्त विन एवं नया इति, न चैतत् स्वमनीपिकयोच्यते, यत आह भाज्यकार:"होइ कयस्थो वोत्तुं सपयच्छेयं ।
सपयच्छेय सुर्य सुयाणुगमो। सुत्तालावयनासो नामाइण्णासविणिओगं ॥ १॥ सुत्सफासियनिजत्तिविनियोगो सेसओ पयस्थाई । पायं सो श्चिय नेगमणयाइमयगोयरो होइ ॥ २॥" आह-यधेवमुत्कमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित !, उच्यते, निक्षेपसामान्यालाघवार्थमित्यलं प्रसङ्गेन । एवं विनेयजनानुग्रहायानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शिता, अधुना प्रकृतं प्रस्तुमा, तत्र सूत्र सूत्रानुगमे सरयुचारणीयं, तश्च पश्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादिस्वात्, सर्वसम्मतसूत्रादिवत्, सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानस्वात् , नियुकिकृतोपम्यस्तत्वाद्, अभ्य तु न्या चक्षते-मङ्गलवादेवायं सूत्रादौ व्याख्यायत इति, तथाहि-त्रिविध मङ्गलम्-आदौ मध्येऽवसानेच, तत्राऽऽदिमङ्गलार्थ नन्दी व्याख्याता, मध्यमङ्गलार्थ तु तीर्थकरादिगुणाभिधायकः 'तिर्थकरे' इत्यादि गाथासमूहः, नमस्कारस्स्ववसानमङ्गलाथे इति, एतच्चायुक्त, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात्, कृतकरणे चानवस्थाप्रसङ्गात् , अलं वा परबुद्धिमान्धप्रदर्शनेन, नैप सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग व्याख्याय सूत्र न्याख्यास्यामः, स चोत्पत्स्यायनुयोगदारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकार:
उप्पत्ती (१) निक्खेबो (२) पयं (३) पयत्यो (४) परूवणा (५) वत्थु (१)।
भक्खेव (७) पसिडि (८) कमो (९) पोयणफलं नमोकारो॥८७॥ व्याख्या-उत्पादनम् उत्पत्तिः, प्रसूतिः उत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतविम्त्या, तथा निक्षेपण निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच नामिकादि, तञ्चास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदायनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा-प्ररूपणा कायेंति, वसन्त्यस्मिन् गुणा इति वस्तु तदह वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अर्हदादिरभिधेयः, 'प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाल्यं,तथा 'फलं तच क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थप्रतिपादयन्ति, नमस्कारः (९५०० ग्रन्था) खल्वेभिारैश्चिन्त्य इति गाथासमुदायार्थः ॥ ८८७ ॥ 'यथोदेशं निर्देश' इति न्यायमाभित्योत्पतिद्वारनिरूपणायाऽऽह नियुक्तिकारः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340