Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥२५॥
मावश्यक-हारिभद्रीयवृत्तिः पचक्खे दद्दणं जीवाजीवे य पुण्णपावं च । पञ्चक्खाया जोगा सावजा तेतलिसुएणं ।। ८७९ ॥ व्याख्या-प्रत्यक्षानिव दृष्ट्वा देवसंदर्शनेन, कान् ?-जीवाजीवान् पुण्यपापं च प्रत्याख्याता योगाः सावधास्तेतलिसुते. नेति गाथार्थः ॥ ८७९ ।। गतं निरुक्तिद्वारं, समाता चोपोदूधातनियुकिरिति ॥
अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तायसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-ययेवं किमिति तस्याः खल्विहोपन्यासः १, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यवसरप्राप्त एव, तत्र च सूत्रमुच्चारणीयं, तञ्च किम्भूतं ?, तत्र लक्षणगाथा
अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुतं सुतं अहहि य गुणेहि उववेयं ॥ ८८०॥ व्याख्या-अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्ययधौव्ययुक्कं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशदोषविरहितं यच, क एते द्वात्रिंशदोषाः ।, उध्यन्तेअलियमुषघायजेणयं निरत्ययमवस्थय लं हिलं । निस्सारमषियमूणं पुणवत्तं वाहयमतं ॥ ८८१॥ कममिणवर्यणमिणं बिभत्तिभिन्नं चलिंगभिन्नं च।अणभिहियमपर्यमेव य सभीवहीणं हियं च ॥८८२।। कालजति विदोसा समय विरुद्धं च वर्यणमितं च । अत्यावेतीदोसो य होह असमासदोसोय ॥ ८८३ ॥ उमारूवंगदोसाऽनिदेसे पैदस्संघिदोसो य । एए उ सुत्सदोसा बत्तीसं होति णायव्वा ॥ ८८४ ॥ __ न्याख्या-तत्र 'अनृतम्' अभूतोनावनं भूतनिहवच, अभूतोनावनं-प्रधान कारणमित्यादि, भूतनिहवः-नास्त्यात्मेत्यादि १, 'उपधातजनक' सत्योपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णकमनिर्देशवत् निरर्थकमारादेसादिवत् , आर आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्र विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थक, तथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीची, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविघातोऽर्थविकपोपपत्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं दुहिलं, यथा-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्कन, नासौ पापेन युज्यते ॥१॥' कलुषं वा दुहिलं, येन पुण्यपापयोः समताऽऽपाद्यते, यथा-'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि ६, 'निःसारं' परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम्-अधिकं ८, तैरेव हीनम्-उनम् ९, अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दोः कृतकत्वप्रयला. नम्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम्-ऊनं यथा-अनित्यः शब्दो घटषत् अनित्यः शब्दः कृतकत्वादित्यादि ८-९, शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापत्रस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुकम्-इन्द्र इन्द्र इति, अर्थपुनरुक्तम्-इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुले बलवान् पट्विन्द्रियश्च, अर्थादापन्नं रात्री भुङ्ग इति, तत्र यो ब्रूयात्-दिवा न मुक्ने रात्री मुक्त इति स पुनरुक्तमाह १०, 'व्याहतं' यत्र पूर्वेण परं विहन्यते, यथा-कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणा' मित्यादि ११, 'अयुक्तम्' अनुपपत्तिक्षम, यथा-'नेपां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी धोरा, हस्स्यवरथवाहिनी ॥१॥' इत्यादि १२, 'कमभि' पत्र यथासमनुदेशो न क्रियते, यथा 'स्पर्शनरसनभाणचक्षुःश्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशब्दा' इति वक्तव्ये स्पर्शरूपशब्दगम्धरसा इति अयात् इत्यादि १३, 'वचनभिर्म' वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः इत्यादि १४, विभक्तिभिन्नं विभक्तिव्यत्ययः, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं नीति वक्तव्येऽयं खीत्याह १६, 'अनभिहितम्' अनुपदिष्टे स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेपिकल, प्रधानपुरुषाभ्यामभ्यधिकं साझपस्य, चतुःसत्यातिरिक्त शाक्यस्येत्यादि १७, अपदं पचविधी पणे विधातव्येऽ. म्यग्छन्दोऽभिधानं, यथाऽऽर्यापदे वैतालीयपदाभिधानं १८, 'स्वभावहीन' पइस्तुनः स्वभावतोऽन्यथावचनं, यथा शीतोऽनिर्मूर्तिमदाकाशमित्यादि १९, 'व्यवहितम्' अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोपः अतीतादिकालव्यत्ययः, यथा रामो धन प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः-अस्थानविच्छेदः तदकरण वा, २२, 'छविः अलङ्कारविशेषस्तेन शून्यमिति २३, 'समयविरुद्धं च' स्वसिद्धान्तविरुद्धं यथा सायस्यासत् कारणे कार्य सद् वैशेषिकस्येत्यादि २४, वचनमानं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, 'अर्थापत्तिदोषः' यत्रार्थादनिष्टापत्तिः, यथा 'माक्षणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः २६, 'असमासदोषः' समासब्यत्ययः, यत्र वा समासविधी सत्यसमातवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुष समासे कर्तव्ये विशेषणसमासकरणं बहुप्रीहिसमासकरणं यदिवा असमासकरण राज्ञः पुरुषोऽयमित्यादि २७, 'उपमादोषा' हीनाधिकोपमानाभिधानं, यथा मेहा सर्पपोपमः, सर्षपो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340