Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥२१॥
मावश्यक-हारिभद्रीपत्ति कमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे दे, तद्भावेऽपि मोक्षाभावात् , तथाहि-समप्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः ॥ द्वारं ॥ 'उद्देसे निदेसे य' इत्याधुपोद्घातनियुक्तिप्रथमद्वारगाथावयवार्थो गतः, इदानी द्वितीयद्वारगाथाप्रथमावयवः किमिति द्वार व्याख्यायते-किं सामायिक ?, किं तावज्जीवः ? उताजीवः ? अथोभयम् । उतानुभयं !, जीवाजीवत्वेऽपि किं द्रव्यं । टस गुण इत्याशङ्कासम्भवे सत्याहआया खल सामइयं पचक्खायंतओ हवा आया। तं खलु पञ्चकखाणं आवाए सव्वदम्बाणं ॥७९॥
व्याख्या-'आत्मा' जीवः खलुशब्दोऽवधारणे, आत्मैव-जीव एवं सामायिकमित्यजीवादिपूर्वोक्तविकल्पव्यवच्छेदः, 'पञ्चक्खायंतओ हवा आय'त्ति सच प्रत्याचक्षाण:-प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदादू वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावधनिवृत्तिस्वस्वभावावस्थितत्वात् , शेषः संसारी पुनरात्मैव न भवति, प्रचुरघातिकर्मभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अतो द्वितीयाऽऽमग्रहणं, 'तं खलु पञ्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सबदवाणं' ति सर्वद्रव्याणामापाते-आभिमुख्येन समवाये, निष्पचत इति वाक्यशेषा, तस्य श्रद्धेयज्ञेयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सतिविषयनिरूपणमस्थान्याय्यम् , अप्रस्तुतत्वाद्, बाह्यशास्त्रवत् , उच्यते,अप्रस्तुतत्वादित्यसिद्धं, तथाहि-सामायिकस्य विषयनिरूपणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात् , सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः । तत्र यदुकम् 'आत्मा खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकारः
सावजजोगविरओ तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होई ॥१४९॥ (मू० भा) व्याख्या-सावद्ययोगविरतः अवयं मिथ्यात्वकषायनोकषायलक्षणं सहावधेन सावद्यो योगस्तद्विरता-तद्विनिवृत्ता, त्रिभिः-मनोवाकायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः-प्रयतवान, तथाऽवश्यंकर्तव्येषु योगेषु सदोपयुक्तः, यतमानस तेष्वेवासेवनया, इस्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पञ्चक्खाणं आवाए सबदवाणं' ति, तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामस्योपदर्शयन्नाहपढमंमि सव्वजीवा पिइए चरिमे य सव्वव्वाई । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥७९१ ॥ ___ व्याख्या-'प्रथमे' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवाः' त्रसस्थावरसूक्ष्मतरभेदा विषयत्वेन द्रष्टव्या, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृपावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि, कथम् !, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात् , तमिवृत्तिरूपत्वाच्च द्वितीयव्रतस्य, तथा मूर्छाद्वारेण परिग्रह स्यापि सर्वद्रव्यविषयत्वाचरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना । 'सेसा महवया खलु तदेकदेसेण दवाणं' ति शेषाणि महानतानि, खस्वित्यवधारणार्थ, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहार, कथम् ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् , चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् , षष्ठस्य च रात्रिभोजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति गाथार्थः ॥ एवं चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र सामायिकमजीवादिब्युदासेन जीव एवेत्युक, तस्य च नरामतभेदेन द्रव्यगुणागती सकलनयाधारद्रव्यार्थिकपर्यायार्थिकाभ्यां स्वरूपव्यवस्थोपस्थापनायाहजीवो गुणपडिवनो णयस्स व्वडियस्स सामइयं । सो चेव पजावणयहियस्स जीवस्स एस गुणो ॥७९२॥
व्याख्या-'जीवः' आत्मा, गुणैः प्रतिपन्न:-आश्रितः-गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस' द्रव्यार्थिकस्य सामायिकमिति वस्तुत आस्मैव सामायिक, गणास्त तयतिरेकेणानवगम्यमानत्वान्न सन्त्येव. तत्प्रति रपि तस्य भ्रान्ता, चित्रे निनोन्नतभेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायाधिकनयस्य, परमार्थने यस्माजीवस्य एष गुण इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्थं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धे, रूपाद्यर्थान्तररूपघटवत् , तस्माद्गुणः सामायिकमिति हृदयं, न तु जीव इति गाथार्थः ॥ साम्प्रतं पर्यायार्थिक एवं खं पक्षं समर्थयशाहउप्पयति वयंति य परिणम्भंति य गुणा ण व्वाई। वप्पभवा य गुणा ण गुणप्पभवाई दवाइं ॥७९॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340