Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
॥१७६॥
भावश्यक-हारिभद्रीवत्तिः संजमजोए अन्मुट्टियस्म जंकिंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छसि कापव्वं ॥ १८२॥
व्याख्या-संयमयोगः-समितिगतिरूपस्तस्मिन्विषयभतेऽभ्यस्थितस्य सतः यत्किचिद्वितथम-अन्यथा आचरितमआसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति' विपरीतमेतदित्येवं विज्ञाय किम् ?-'मिच्छत्ति काय मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः ॥ तथा चोत्सर्गमेव प्रतिपादयन्नाहजह य पडिक्कमियव्वं अवस्स काऊण पाचयं कम्मं । तं चेव न कायव्वं तो होइ पए पडिकतो ॥ ६८३ ॥
व्याख्या--यदि च 'प्रतिक्रान्तव्यं निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्य नियमेन र ततश्च 'तदेव' पाप कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'पदे'त्ति प्रथम प्रतिक्रान्त इति गाथार्थः ॥ साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराहजं दुकडंति मिच्छा तं भुज्जो कारणं अरेतो। तिविहेण पडिकतो तस्स खलु दुकर्ड मिच्छा॥ ६८४॥ व्याख्या-'यदि'त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च 'यत्कारणं' यद् वस्तु दुष्टु कृतं दुष्कृतम् 'इति' एवं विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तदू 'भूयः' पुनः प्रागुक्त दुष्कृतकारणम् 'अपूरयन्' अकर्वन्ननाचरन्नित्यर्थः, यो वत्तेत इति वाक्यशेषः, 'तस्स खलु दुक्कडं मिच्छत्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्यकुर्वन्नपूरयन्नभिधीयत एवेत्यत आह-'तिविहेण पडिकंतो' ति त्रिविधेन मनोवाकायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन 'प्रतिकान्तो' निवृत्तो यस्तस्माइष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये ति मिथ्या, भवतीति क्रिया याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह
जं दुछाडंति मिच्छा तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई मायानियडीपसंगो प ॥ १८५॥ व्याख्या-'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेधते पुनः पापं स हि प्रत्यक्षमृषावादी वर्तते, कथम् ?-दुष्कृतमेतदित्यभिधाय पुनरासेवनात् , तथा मायानिकृतिमसङ्गश्च तस्य, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुळदिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः १, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशयाहमित्ति मिउमहवत्ते छत्ति य दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुगुंजामि अप्पाणं ॥१८॥
व्याख्या-'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्तते, तत्र मृदुत्वं-कायनबता माईवत्वं-भावनयतेति, छेति च दोषभ्यअसंयमयोगलक्षणस्य छादने स्थगने भवति, 'मी'ति चायं वर्णः मर्यादायां-चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'द'इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्तत इति गाथार्थः॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उपसमेणं । एसो मिच्छाउक्कडपयक्खरत्यो समासेणं ॥ ६८७ ॥ दारं ॥
व्याख्या-'क' इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्तते, 'ड' इति च 'डेवेमि तंति लढयामि-अतिकमामि तत्, केनेत्याह-उपशमेन हेतुभूतेन, 'एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति 'समासेन' सङ्केपेणेति गाथार्थः॥ आह-कथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकमक्षरेषु तदभावादिति, प्रयोगश्च-इह यात्र प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपत्तेर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति । द्वारम् २। साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपिपादयिषयाऽऽह
कप्पाकप्पे परिणिट्ठियम्स ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविकप्पेणं तहाकारो॥६८८॥ व्याख्या-कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादि, कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठा प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि-महानतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महानतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाढ्यः-सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्स किमित्याह'अविकल्पेन' निश्चयेन, किम्-तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः ॥ इदानी तथाकारविषयप्रतिपादनायाहचायणपडिसुणणाए उपएसे सुत्सअस्थकहणाए।अवितहमेयंति तहा पडिसुणणाए तहकारो॥ ६८९॥ दारं॥ ब्याख्या-वाचना-सुत्रप्रदानलक्षणा तस्याः प्रतिश्रवर्ण-प्रतिश्रवणा सत्यां वाचनाप्रतिभवणायां तथाकार: कायेः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340