Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 188
________________ ॥ १७७॥ व्यावश्यक दारिभद्रीयवृत्तिः एतदुक्त भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे - चक्रवालसामा - चारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत्तअत्थकहणाए 'त्ति सूत्रार्थकथनायां व्याख्यान इत्यर्थः, किम् ?–तथाकारः कार्यः, तथाकार इति कोऽर्थ इति १, आह-अवितथमेतत् यदाहुर्यूयमिति, न केवलमुकेवेवार्थेषु तथाकारप्रवृत्तिः, तथा 'पडिसुणणाए' सि प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायांच तथाकार प्रवृत्तिरिति, चशब्दलोपोऽत्र द्रष्टव्य इति गाथार्थः ॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाह जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहकारो न दुल्लभा सोग्गई तस्स ।। ६९० ॥ व्याख्या यस्य चेच्छाकारो मिथ्याकारच परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव । द्वारं ३ ॥ साम्प्रतमावश्यकीनैवैधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह - आवस्सियं च र्णितो जं च अहंतो निसीहियं कुणइ । एवं इच्छं नाउं गणिवर ! तुब्भंतिए णिउणं ॥ ६९१ ॥ व्याख्या— शिष्यः किलाह- 'आवस्सियं'ति आवश्यकी - पूर्वोक्ता तामावश्यकीं च 'निन्तो' निर्गच्छन् यां च 'अर्तितो' ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यकी नै पेधिकीद्वयमपि स्वरूपादिभेदभिनं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः । एवं शिष्येणोक्ते सत्याहाचार्य:आवस्सियं वर्णितो जं च अहंतो णिसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ॥ ६९२ ॥ व्याख्या– आवश्यिक च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुह 'ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनषेधिक्योः 'स एव' एक एव यस्मादवश्यं कर्त्तव्ययोगक्रियाऽऽवश्यि की निषिजात्मनश्चातिवरेभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्घय प्रवर्त्तते, आह-यद्येवं भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाश्चेति गाथार्थः ॥ आह- 'आवश्यक व निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति १, उच्यते, अवस्थानमिति, कथम् ?, यत आह एगग्गरस पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होई ॥। ६९३ ।। व्याख्या - एकमप्रम् - आलम्बनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत आह- 'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम् ?, न भवन्ति ईर्यादयः, ईरणमीय-गमनमित्यर्थः, इहेर्व्याकार्य कर्म ईर्ष्याशब्देन गृह्यते, कारणे कार्योपचा राहू, ईर्ष्या आदी येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तवमवसं कारणमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च * गम्ययपः कर्माधारे इति पञ्चमी तथा चातिचारानाश्रित्येत्यर्थः. कारणे' गच्छतः 'आवस्सिया होइ' आवश्यकी भवतीति गाथार्थः । आह - कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति १, नेति, कस्य तर्हि ?, उच्यते - आवस्सिया उ आवस्सएहिं सव्वेहिं जन्तजोगिस्स । मणवयणका यगुसिंदियस्स आवस्सिया होह ॥ ६९४ ॥ व्याख्या - आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किम् ? - आवश्यकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः कायात्पृथगिन्द्रियग्रहणं प्राधान्यरख्यापनार्थम् अस्ति श्चायं न्याय: - ' सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो' यथा - ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ॥ उक्ताssवश्यिकी, साम्प्रतं नैषेधिकीं प्रतिपादयन्नाह - सेनं ठाणं च जहिं एइ तर्हि निसीहिया होइ । जम्हा तत्थ निसिडो तेणं तु निसीहिया होई ॥। ६९५ ॥ व्याख्या - शेरतेऽस्यामिति शय्या - शयनीय स्थानं तां शय्यां 'स्थानं चे 'ति स्थानमूर्ध्वस्थानं', कायोत्सर्गः, यत्र ''वेतयते' 'चिती सज्ञाने' अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याः क्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, सव विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्याशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तंत्र' एवं • कारणात् प्र०. + किमुच्यते प्र० f नमुक्तं प्र० Jain Education International शय्या प्र०. 1 प्रतिक्रमणाचशेषैः कार्यैः समापितावश्यक कृत्य इत्यर्थः. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340