________________
॥ १७७॥
व्यावश्यक दारिभद्रीयवृत्तिः
एतदुक्त भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे - चक्रवालसामा - चारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत्तअत्थकहणाए 'त्ति सूत्रार्थकथनायां व्याख्यान इत्यर्थः, किम् ?–तथाकारः कार्यः, तथाकार इति कोऽर्थ इति १, आह-अवितथमेतत् यदाहुर्यूयमिति, न केवलमुकेवेवार्थेषु तथाकारप्रवृत्तिः, तथा 'पडिसुणणाए' सि प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायांच तथाकार प्रवृत्तिरिति, चशब्दलोपोऽत्र द्रष्टव्य इति गाथार्थः ॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाह
जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहकारो न दुल्लभा सोग्गई तस्स ।। ६९० ॥
व्याख्या यस्य चेच्छाकारो मिथ्याकारच परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव । द्वारं ३ ॥ साम्प्रतमावश्यकीनैवैधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह -
आवस्सियं च र्णितो जं च अहंतो निसीहियं कुणइ । एवं इच्छं नाउं गणिवर ! तुब्भंतिए णिउणं ॥ ६९१ ॥
व्याख्या— शिष्यः किलाह- 'आवस्सियं'ति आवश्यकी - पूर्वोक्ता तामावश्यकीं च 'निन्तो' निर्गच्छन् यां च 'अर्तितो' ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यकी नै पेधिकीद्वयमपि स्वरूपादिभेदभिनं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः । एवं शिष्येणोक्ते सत्याहाचार्य:आवस्सियं वर्णितो जं च अहंतो णिसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ॥ ६९२ ॥
व्याख्या– आवश्यिक च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुह 'ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनषेधिक्योः 'स एव' एक एव यस्मादवश्यं कर्त्तव्ययोगक्रियाऽऽवश्यि की निषिजात्मनश्चातिवरेभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्घय प्रवर्त्तते, आह-यद्येवं भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाश्चेति गाथार्थः ॥ आह- 'आवश्यक व निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति १, उच्यते, अवस्थानमिति, कथम् ?, यत आह
एगग्गरस पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होई ॥। ६९३ ।।
व्याख्या - एकमप्रम् - आलम्बनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत आह- 'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम् ?, न भवन्ति ईर्यादयः, ईरणमीय-गमनमित्यर्थः, इहेर्व्याकार्य कर्म ईर्ष्याशब्देन गृह्यते, कारणे कार्योपचा राहू, ईर्ष्या आदी येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तवमवसं कारणमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च
* गम्ययपः कर्माधारे इति पञ्चमी तथा चातिचारानाश्रित्येत्यर्थः.
कारणे' गच्छतः 'आवस्सिया होइ' आवश्यकी भवतीति गाथार्थः । आह - कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति १, नेति, कस्य तर्हि ?, उच्यते -
आवस्सिया उ आवस्सएहिं सव्वेहिं जन्तजोगिस्स । मणवयणका यगुसिंदियस्स आवस्सिया होह ॥ ६९४ ॥
व्याख्या - आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किम् ? - आवश्यकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः कायात्पृथगिन्द्रियग्रहणं प्राधान्यरख्यापनार्थम् अस्ति श्चायं न्याय: - ' सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो' यथा - ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ॥ उक्ताssवश्यिकी, साम्प्रतं नैषेधिकीं प्रतिपादयन्नाह -
सेनं ठाणं च जहिं एइ तर्हि निसीहिया होइ । जम्हा तत्थ निसिडो तेणं तु निसीहिया होई ॥। ६९५ ॥
व्याख्या - शेरतेऽस्यामिति शय्या - शयनीय स्थानं तां शय्यां 'स्थानं चे 'ति स्थानमूर्ध्वस्थानं', कायोत्सर्गः, यत्र ''वेतयते' 'चिती सज्ञाने' अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याः क्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, सव विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्याशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तंत्र' एवं
•
कारणात् प्र०. + किमुच्यते प्र० f नमुक्तं प्र०
Jain Education International
शय्या प्र०. 1 प्रतिक्रमणाचशेषैः कार्यैः समापितावश्यक कृत्य इत्यर्थः.
For Private & Personal Use Only
www.jainelibrary.org