________________
॥१७॥
बावश्यक-हारिभद्रीपतिः विधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात्तस्या इति गाथार्थः ॥ पाठान्तरं वासेजं ठाणं च जदा घेतेति तया निसीहिया होइ । जम्हा तदा निसेहो निसेहमइया च सा जेणं ॥ ६९६ ॥
इयमुक्कार्थत्वात्सुगमैव । अनेन ग्रन्थेन मूलगाथायाः 'आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति व्यञ्जनमेतद् बेधे' त्येतावत् स्थितिरूपनषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपसविहीर्घराह भाष्यकार:आवस्सियंचणितोच अइंतो निसीहियं कुणइ ।सेन्जाणिसीहियाए णिसीहियाअभिमुहोहोई ॥१२०॥(भा)
व्याख्या-आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति तदेतद् व्याख्यातम् , उपलक्षणत्वात्सह तृतीयपादेन 'व्यञ्जनमेतद दिये त्यनेनेति । साम्प्रतम् 'अर्थः पुनर्भवति स एवेति गाथावयवार्थःप्रतिपाचते-तवेत्थमेक एवार्थों भवति-यस्माषेधिक्यपि नावश्यंकर्तव्यच्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थ चेत्थमाह । 'सेजानिसीहियाए निसीहियाअभिमुहो होइ'त्ति शय्यैव नैषेधिकी तस्यां शय्यानषेधिक्यां विषयभूतायां, किम्, शरीरमपि नैवेधिकीत्युच्यत इति, अत आह-शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति सम्ज्ञां करोतीति गाथार्थः ॥ इतश्चैक एवार्थो यत भाहजोहोर निसिपा निसीहिया तस्स भावओहोइ।अणिसिद्धस्स मिसीहिय केवलमेतं हवह सहो॥१२१॥ (भा०)
व्याख्या-यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैवेधिकी 'तस्य' निषिद्धात्मनो 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धत्य-अनुपयुक्तस्थागच्छतः नैवेषिकी, किम् ?-'केवलमेतं हवइ सहो' केवलं शब्दमात्रमेव भवति, न भाक्त इति गाथार्थः । आह-यदि नामैवं तत एकार्थतायाः किमायातमिति?, उच्यते, निषिद्धात्मनो नैपेधिकी भवतीत्युकं, स च
आवस्सपंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्यो।
अहवाऽवि णिसिद्धप्पा णियमा आवस्सए जुत्तो ॥१२२ ॥ दारं (भाष्यम् ) व्याख्या-'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोति होइ नाययो' नियमेन निषिद्धो नियमनिषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यिक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्यतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा 'महवाधि निसिद्धप्पा सिद्धाणं अंतिय जाइ'त्ति, अस्यायमर्थः-एवं क्रियाया अभेदेनावश्यकीनषेधिक्योरेकार्यतोका, इह तु कार्याभेदेनोध्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिक-सामीप्यं 'याति' गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः॥ द्वारं ४-५॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयशाहआपुच्छणा उ कजे पुठवनिसिद्धेण होइ पडिपुच्छा । पुव्वगहिएण छंदण णिमंतणा होमगहिएणं ॥६९७ ॥
व्याख्या-आमच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । दारं । तथा पूर्वनिषिद्धेन सता भयतेदं न कार्यमिति, उत्पने च प्रयोजने कर्तुकामेन होति पडिपुच्छत्ति प्रतिपृच्छा कर्तव्या भवति, पाठान्तरं वा-'पुचनिउत्तेण होइ पहिपुच्छा' पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तस्कर्तुकामेन गुरोः प्रतिपृच्छा कर्तव्या भवति-अहं तस्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वार । तथा पूर्यगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्तव्या-इदं मयाऽशनाधानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविपछाकारेण ग्रहणं करोत्विति । द्वारं ८ । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनापानयामीति
रानीमुपसम्पदूद्वारावयवार्थः प्रतिपाद्यते-सा चोपसम्रद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पञ्च, सत्रास्तां तावद् गृहस्थोपसम्पत् , साधूपसम्पत्प्रतिपाद्यते-सा च त्रिविधा-ज्ञानादिभेदाद्, आह चउपसंपया य तिविहा गाणे तह दसणे चरित्ते य । दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ ६९८ ॥
व्याख्या-उपसम्पञ्च त्रिविधा 'ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रायेति गाथार्थः । तत्र यदुक्तं-'दर्शनज्ञानयोस्त्रिविधे'ति तत्प्रतिपादयमाह
वत्तणा संधणा घेव, गहणं सुत्तत्थतदुभए । बेयावचे खमणे, काले आवकहाह य ॥ ६९९ ॥ व्याख्या-वर्तना सन्धना चैव ग्रहणमित्येतत्त्रितयं 'सुत्तत्थतदुभए'त्ति सूत्रार्थोभयविषयमवगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव
Jain Education Interational
For Private & Personal Use Only
.. www.jainelibrary.org