SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मावश्यक हारिभद्रीयवृत्तिः ॥ १७९॥ भेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्र विषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धः शेषास्त्वशुद्धा इति, 'द्विविधा च चारित्रार्थाये'ति यदुकं तत्प्रदर्शनायाह- 'वेयावच्चे खमणे काले आवकहाइ य' चारित्रोपसम्पद् वैयावृत्यविषया क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति - चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः ॥ साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पद्दातव्येति मौलिकोऽयं गुण इति एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिषित्सुराह— संदिट्ठो संदिट्ठस्स वेब संपाई उं एमाई । चउभंगो एस्थं पुण पढमो भंगो हवइ सुद्धो ॥ ७०० ॥ व्याख्या- 'सन्दिष्टो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छेत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं - तद्यथा - सन्दिष्टः सन्दिष्टस्योक एव, सन्दिष्टः असन्दिष्टस्याम्यस्याऽऽचार्यस्येति द्वितीयः, असन्दिष्टः सन्दिष्टस्य, न तावदिदानीं गन्तव्यं गन्तव्यं त्वमुकस्येति तृतीय:, असन्दिष्टः असन्दिष्टस्य-न ताबदिदानीं गन्तव्यं न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्तिनिमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः ॥ साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह अथिरस पुण्यगहियस्स वत्तणा अं इहं थिरीकरणं । तत्सेव पएसंतरणहस्सऽणुसंघणा घडणा ॥ ७०१ ॥ १ आचार्यस्य. हणं तप्पमतया सुते अत्थे य तदुभए बेव । अत्थग्गहणंमि पार्य एस विही होइ णायव्वो । ७०२ ।। गाथाद्वयं निगदसिद्धमेव । नवरं प्रायोग्रहणं सूत्रग्रहणेऽपि कश्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थम् ॥ साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाह मज्जणणि सेज्जअक्खा कितिकंमुस्सग्ग बंदणं जेट्ठे । भासतो होई जेट्टो मो परियाएण तो वन्दे ॥ ७०३ ॥ तवष्याचिख्यासयैवेदमाह ठाणं पमजिऊणं दोणि निसिजाउ होंति कायदवा । एगा गुरुणो भणिया बितिया पुण होति अक्खाणं ॥ ७०४ ॥ निगदसिद्धा, नवरम्- 'अक्खाणं'ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्येत्युत्सर्गः ॥ व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्याचिख्यासयाऽऽह— दो चैव मत्तगाई खेले तह काइयाए बीयं तु । जावश्या य सुर्णेती सब्वेऽवि य ते तु बंदंति ॥ ७०५ ॥ निगदसिद्धैष, नवरं मात्रकं -समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृत व्याख्यानोत्थानानुस्थानाभ्यां पलिसम्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् । अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह् o कासगं करेंति सव्वे पुणोऽषि वदति । णासण्णे णाइदूरे गुरुवयणपडिकलगा होति ॥ ७०६ ॥ व्याख्या - सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी' तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्गे कुर्वन्ति, तं वत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासने नातिदूरे व्यवस्थिताः सन्तः किम् ?- गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः ॥ साम्प्रतं श्रवणविधिप्रतिपादनायाह णिद्दा विगहा परिषजिएहिं गुतेहिं पंजलिउडेहिं । भक्तिबहुमाणपुष्वं उपउतेहिं सुणेपव्वं ॥ ७०७ ॥ अभिकवतेहिं सुहासियाइँ बयणाइँ अस्थसाराई । विम्हियमुहहिं हरिसागएहिं हरिसं जणतेहिं ॥ ७०८ ॥ गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागरहिं' ति सञ्जातहर्षैरित्यर्थः, अभ्येषां च संवेगकारणांदिना हर्ष जनयद्भिः, एवं व शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ॥ ततः किमित्याह गुरुपरिओसगएणं गुरुभक्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं विप्पं पारं समुचयंति ।। ७०९ ॥ व्याख्या- 'गुरुपरितोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ?, सम्यक्सद्भावप्ररूपणया ईप्सित सूत्रार्थयोः 'क्षिप्रं ' शीघ्रं पारं समुपयान्ति-निष्ठां ब्रजन्तीति गाथार्थः ॥ वक्ाणसमतीए जोगं काऊण काइयाईणं । वंदति तओ जे अण्णे पुत्र्वं चिय भणन्ति ॥ ७१० ॥ निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति - किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराह चोति जइहु जिट्ठो कहिंचि सुत्रात्थधारणाविगलो । वक्खाणलद्धिहीणो निरत्ययं वंदणं तंमि ॥ ७११ ॥ निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिंस्तत्फलस्य प्रत्युच्चार कश्श्रवणत्याभावादिति भावना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy