SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ मावश्यक-हारिभद्रीयवृत्तिः अह वयपरियाएहि लहुगोऽविहु भासओ इहं जेहो। रायणियवंदणे पुण तस्सविआसायणा भंते॥७१२॥ ___ व्याख्या-अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रलाधिकवन्दने पुनः तस्याप्याशातना भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः॥ इत्थं पराभिप्रायमाशयाहजइवि षयमाइपहिं लहुओ सुत्तत्थधारणापडओ। वक्खाणलखिमंतो सोचिय इह घेप्पई जेहो ॥ ७१३ ॥ व्याख्या-प्रकटार्था । आशातनादोषपरिजिहीर्षया वाहआसायणावि णेषं पहुच जिणवयणभासयं जम्हा । वंदणयं राइणिए तेण गुणेणंपि सोचेष ॥७१४॥ प्रकटाथैव । नबरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानी प्रसङ्गतो बन्दनविषय एव निश्चयव्यवहारमयमतप्रदर्शनायाहनवओएत्थ पमाणं न य परिपाओऽषिणिण्यमएण।वषहारओ उ जुजा उभयमयमयं पुण पमाणं ॥७१५॥ व्याख्या-न 'वयः' अवस्थाविशेषलक्षणम् 'अन' वन्दनकविधौ प्रमाण, न च 'पर्यायोऽपि' प्रनग्याप्रतिपत्तिलक्षणः 'निश्चयमतेन' निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गानिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह-उभयनयमतं पुनः प्रमाणमिति गाथार्थः ॥ प्रकृतमेवार्थ समर्थयन्नाहमिष्ण्यो दु यं-को भावे कम्मि बढई समणो । ववहारओ उ कीरइ जो पुष्वठिओ चरितमि ॥७१६ ॥ ग्याख्या-निधयतो दुर्गेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वर्तते श्रमण इति, भाषधेह ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राः इत्यतो विधिमभिषित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथम प्रमजिता सन्मनुपलग्धातिचार इति गाथार्थः ॥ आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवस्वाद्, आह च भाष्यकार:पबहारोऽपिपलचं जे एउमस्थंपि वंदई अरहा।जा होइ अणामिण्णो जाणतो धमयं एयं ॥ १२३॥ (भा०) व्याख्या-व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छनस्थमपि पूर्वरनाधिकं गुर्वादि वन्दते 'अहन्नपि' केवस्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा ?, नेत्याह-'जा होइ अणाभिन्नो'त्ति यावर् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानम् धर्मतामेतां व्यवहारनयबलातिशयखक्षणामिति गाथार्थः॥ आह-ययेवं सुतरां वयापर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम् , आशातनाप्रसङ्गादिति, उच्यते, एस्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाओ। भासंतगजेडगस्स उ कायध्वं होह किइकम्मं ॥७१७॥ व्याख्या-'अत्र तु' व्याख्याप्रस्ताववन्दनाधिकारे 'जिनवचनात्' तीर्थकरोक्तत्वात् तथा च अवन्धमाने सूत्राशातनादोषबहुत्वात् 'भाषमाणज्येष्ठस्यैव' प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं ?, कर्तव्यं भवति 'कृतिकर्म' बन्दनमिति गाथार्थः । * प्रामोतीत्यतः प्र.. एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षेमस्यादुक एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति ॥ अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आहदुविहा य चरितमी वेयावच्चे तहेव खमणे य । णियगच्छा अण्णमि य सीयणदोसाइणा होति ॥७१८ ॥ व्याख्या-द्विविधा च चारित्रविषयोपसम्पद् वैयावृत्त्यविषया तथैव क्षपणविषयाच, आह-किमत्रोपसम्पदा, स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादम्यभावादिपरिग्रह इति गाथार्थः॥ इत्तरियाइविभासा वेयावर्षमि तहेव खमणे य। अविगिविगिलुमि य गणिणो गच्छस्स पुच्छाए ॥७१९॥ व्याख्या-इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः-यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरो वा स्याद्यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्य्यते, इतरस्सूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसर्ग्यत एष, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्तव्याः यावदागन्तुको विसय॑ते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यत इति, अथ वास्तव्यः खल्वित्वरः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy