SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ मावश्यक-हारिभद्रीयवृत्तिः आगन्तुकस्तु यावत्कथिकः, ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत् , अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यः कार्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति । उक्का वैयावृत्योपसम्पत्, साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते-चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा-विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति । तत्रार्य विधिः-अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः-हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह-लानोपमः, ततोऽसावभिधातव्यः-अलं तव क्षपणेन, स्वाध्यायवैयावृत्यकरणे यहं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते-विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभषापीष्यत एव, यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो-यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिपत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा अवते यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमासाबस्य करिष्यामः, ततोऽसौ प्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योदर्तनादि कार्य, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसझेन इति गाथार्थः॥चारित्रोपसम्पशिधिविशेषप्रतिपादनायाहउपसंपन्नो जं कारणं तु तं कारणं अपूरतो। अहवा समाणियंमी सारणया वा विसग्गो वा ॥७२० ॥ दारं ।। व्याख्या-उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यञ्च सामाचार्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृयादि 'अपूरयन्' अकुर्वन् , यदा वर्तत इत्यध्याहारः, किम् -तदा'सारणया वा विसग्गो वा' तदा तस्य 'सारणा' चोदना षा क्रियते, अविनीतस्य पुनः विसों वा-परित्यागो वा क्रियत इति, तथा नापूरयमेव यदा वर्तते तदैव सारणा का विसर्गो वा क्रियते, किं तु? 'अहवा समाणियंमित्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-समाप्तं, तद्विसर्गो वेति गाथार्थः ॥ उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते-तत्र साधूनामियं सामाचारी-सर्वत्रैवाध्वादिषु वृक्षाघधोऽप्यनुज्ञाप्य स्थातव्यं, यत आहइत्तरियं पिन कप्पइ अविदिर्भ खस्लु परोग्गहाईसुं। चिडित्तु निसिइत्तु व तइयव्वयरक्खणहाए ॥ ७२१ ॥ व्याख्या-'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावनहानेकभेदप्रख्यापकः, किं न कल्पते इति ?, आह-'स्थातु' कायोत्सर्ग कर्तुं 'निषीदितुम्' उपवेष्टुं, किमित्यत आह-'तइयधयरक्खणहाए' अदत्तादानघिरत्याख्यतृतीयव्रतरक्षणार्थ, तस्मादिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां, यस्याः सोऽवग्रह इति गाथार्थः ॥ उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरमाहएवं सामायारी कहिया दसहा समासओ एसा । संजमतबड्डयाणं निग्गंथाणं महरिसीणं ॥ ७२२ ॥ निगदसिद्धा । सामाचार्योसेवकानां फलप्रदर्शनायाह एवं सामायारिं जुजंता चरणकरणमाउत्ता । साहू खवंति कम अणेगभवसंचियमणंतं ॥ ७२३ ॥ निगदसिद्धा एव । इदानी पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाघार्युपक्रमकाला, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते-सच सप्तधा, तद्यथा अज्सवसानिमित्त आहारे यणा पराघाए । फासे आणापाणु सत्तविहं झिजए आउं ॥७२४ ॥ व्याख्या-अध्यवसानमेव निमित्तम्. अध्यवसाननिमित्तं तस्मिन्नध्यवसाननिमित्ते सति, अथवा अध्यवसानं रागस्नेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सा न्धिन्यां मत्यां, पराघातो गर्तापातादिसमुत्थस्तस्मिन् सति, स्पर्श भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधे, किम् ?, सर्वत्रैव क्रियामाह-'सप्तविध' सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः॥ अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते आयुर्यथा गस्स गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो तरुणो अतिसयदिवरूवधारी । एकस्य गावो हताः, तदा प्रामाधिपाः (आरक्षकाः) पश्चाल्लमाः, तैनिवर्तिताः, तत्रैकः तरुणोऽतिशयदिग्यरूपधारी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy