Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 178
________________ ॥१६७॥ मावश्यक-हारिभद्रीयवृत्तिः मूर्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगम्तु दर्शितएव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गः, अनागतकालवत्तेषामनन्तत्वात् , न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवनर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ अट्ठहिं सह खंडियसएहिं ॥ ६२१ ॥ व्याख्या-पूर्ववत् , नवरम्-अर्द्ध चतुर्थैः सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः। ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ २२ ॥ व्याख्या-पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् ।। आभहो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोसेण य सवण्णू सव्वदरिसीणं ॥ ६२३ । ___सपातनिका व्याख्या पूर्ववदेव । किं मन्नसि संति देवा उयाहुनसन्तीति संसओ तुझं । वेयपयाण य अत्थं नयाणसी तेसिमो अत्थो ॥२४॥ व्याख्या-किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्ध पूर्ववत् । तानि चामूनि वेदपदानि-'स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छती' त्यादीनि, तथा 'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतम य॑स्ये' त्यादीनि च, तथा 'को जानाति ? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतो प्रतिभासते-यथा अपाम-पीतवन्तः सोम-लतारसम् अमृता-अमरणधर्माणः अभूम-भूताः स्म, अगमन्-गताः ज्योतिःस्वर्गम् , अविदाम देवान-देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातिर्व्याधिः किमु-प्रमे धृतिः--जरा अमृतमय॑स्य-अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम् , अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः। तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सक्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख सम्प्रतप्तत्वादिहागन्तुमशक्ता एव, अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एवं गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपायासम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु, ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृ. ष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात, खरविषाणवत, तत्र वेदपदानां चेत्यादि पूर्ववत, तत्र वेदपदानामयमर्थ:-'को जानाति मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि'त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात् , मनुष्यवत्, भवतोऽपि, आगमाच सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम्-नागच्छन्तीह सदैव सुरगणाः, सङ्घान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नरम्यदेशान्तरगतमनुष्यवत् ,तथाऽसमाप्तकर्तव्यत्वाद्,बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत् , तथाऽनधीनमनुजकार्यत्वात् , नारकवत् , अनभिमतगेहादौ निःसङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पव्वइओ अट्ठहिँ सह खंडियसएहिं ॥ ६२५ ॥ व्याख्या-पूर्ववत् । समाप्तः सप्तमो गणधरः। ते पव्वइए सो अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६२६ ॥ व्याख्या-पूर्ववन्नवरमकरिपकः आगच्छतीति नानात्वम् । आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६२७ ॥ व्याख्या-सपातनिका पूर्ववदेव। किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुज्झं। वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ।।६२८॥ व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-'नारको वै एष जायते, यः शूद्रानमनाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थ, युक्तय एवोच्यन्ते-तत्राकम्पिकाभिप्रायमाह-सौम्य ! त्वमित्थं मन्यसे-देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति ?, प्रयोगश्च-न सन्ति Jain Education Interational For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340