Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *v अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । खात्पालधनभुमेतृपतिमवर्थकादयः । भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा ॥ भूमाँश्चेति कविरूढ्या ज्ञेयोदाहरणावली । जैन्यात्कृत्कर्तृसृस्रष्टविधातृकरसूसमाः ॥ जनकाद्योनिजरुहजन्मभूसूत्यणादयः । धार्याजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः ॥ शालिशेखरमत्वर्थमालिभर्तृधरा अपि । भोज्यागुगन्धोव्रतलिट्पायिपाशाशनादयः ॥ पंत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः । कलत्राद्वररमणप्रणयीशप्रियादयः ॥ संख्युः सखिसमा वाह्याद्गामियानासनादयः । ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः । १. "क्रमेणोदाहरणान्याह-इतिशब्दः प्रकारार्थः । तेन भूपादयोऽपि ॥ कवीनां रूढिः परम्परा तया न तु कविरूद्व्यतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसंबन्धे 'कपाली' इति मत्वर्थीयान्त एव भवति, न तु 'कपालपालः, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि ॥” इति विवृतिः. २. "जन्यजनकभावसंबन्धे यथा-जन्यात्कार्यात्परे कृदादयस्तद्वतां जनकानां कारणानां नाम आहुः॥ यथा-विश्वकृत्, विश्वकर्ता, विश्वसृट् , विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ब्रह्मा । तस्य हि विश्वं जन्यमिति रूढिः ॥ सम आद्यर्थः । तेन-'विश्वकारकः, विश्वजनकः' इत्याद्यपि ॥ कविरूढ्या इत्येव । नहि यथा चित्रकृदुच्यते तथा चित्रसूः इति ॥" इति विवृतिः. ३. "तथा जनकात् परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहुः । यथा-आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः, आत्मसूतिः, ब्रह्मा ।। तस्य ह्यात्मा कारणमिति रूढिः ॥ वक्ष्यमाणस्यादिशब्दस्याभिसंबन्धात् संभवादयोऽपि गृह्यन्ते ॥ अणादयस्तु-भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः । वात्स्यस्यापत्यं वात्स्यायनः ॥ अत्रापि हि भार्गवादीनां भृग्वादयो हि जनका इति रूढिः ॥ 'कविरूढ्या' इत्येव । नहि-आत्मयोनिवत् 'आत्मजनकः, आत्मकारकः' इति भवति ॥” इति विवृतिः. ४. "धार्यधारकसंबन्धे यथा-धार्यवाचकात् परे ध्वजादयो धरान्ता धारकस्य नाम आहुः ॥ यथा-वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् । निभग्रहणात्तत्सदृशा वृषकेतन-शूलायुध-वृषलक्ष्म-चन्द्रशिरस्-चन्द्राभरणादयो गृह्यन्ते । तथा—पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली । पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः ॥ 'कविरूढ्या' इत्येव । तेन सत्यपि धार्यधारकसंबन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । नहि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् अहिपाणिः, वृ. षाङ्कवत् चन्द्राङ्कः, चन्द्रमौलिवत् गङ्गामौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवर चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखरः, शूलिवत् शूलवान् , पिनाकमालिवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधरः, इति ॥” इति विवृतिः. ५. "भोज्यभोजकभावसंबन्धे यथा-भोज्यं भक्ष्यं तद्वाचिनः शब्दात् परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तृणां नाम आहुः । यथा-अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः, देवाः ॥ तेषां ह्यमृतं भोज्यम्' इति रूढिः ॥ आदिशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय ।। 'कविरूढ्या' इत्येव । नहि यथा अमृतभुजः, तथा अमृतवल्मा इति भवति ॥” इति विवृतिः. ६. "पतिकलत्रभावसंबन्धे यथा-पतिर्वरयिता तद्वाचकाच्छब्दात् कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम आहुः ॥ यथा-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, गौरी ॥ तस्या हि शिवः पतिः इति रूढिः ॥ निभग्रहणाद्रमणी-वल्लभा-प्रिया-प्रभृतयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा शिवकान्ता तथा शिवपरिग्रहः इति ॥ तथा-कलत्रवाचिन: शब्दात्परे वरादयः शब्दास्तद्वतां कलत्रवतां वरयितृणां नाम आहुः ॥ यथा-गौरीवरः, गौरीरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः, शिवः ॥ तस्य हि गौरी कलत्रम्' इति रूढिः ॥ आदिशब्दात् तत्समानार्थाः पत्यादयो गृह्यन्ते ॥ 'कविरून्या' इत्येव । नहि भवति यथा गौरीवरः शिवः, तथा गङ्गावरः' इति ॥” इति विवृतिः. ७. "सख्युः संबन्धे यथा—सखिवाचकाच्छब्दात् परे सखिसमानार्थाः तद्वतां सख्यवतां नाम आहुः॥ यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः। मधुसखः कामः । समग्रहणात् सुहृदादयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा-श्रीकण्ठसखो धनदः, तथाधनदसखः श्रीकण्ठ इति ॥" इति विवृतिः. ८. "वाह्यवाहकभावसंबन्धे यथा-वाह्यातू वाह्यवाचिनः शब्दात् परे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 180