________________
वृत्तमोविधक -प्रथममण्ड
[ ५० १२ - १७
रसिकाया प्रष्टो भेदाः यस्याश्चतुष्कलद्वयमादौ स्यात् पुनरपि पिकलः । एवं षट्पदयुक्ता या सौक्कच्छा' भुजङ्गमप्रोक्ता ।। १२ ।। अत्र लघुयुगवियोगादेककगुरोश्च संयोगात् । अष्टौ भवन्ति भेदाः शेषाः स्युदण्डकन्यायात् ॥ १३ ॥ रसिका हंसी रेखा तालाङ्का कम्पिनी च गम्भीरा। काली कलरुद्राणी इत्यष्टौ भेदनामानि ॥ १४ ॥ उदाहरणमञ्जर्यामुदाहृतिरतिस्फुटाः ।* एतेषामपि भेदानां द्रष्टव्या कविपण्डितः ॥ १५ ।।
इति रसिका
३. रोला या चरणे कलानां चतुरधिकविंशेर्गदिता,
सा किल रोला भवति नागकविपिङ्गलकथिता । एकादशकलविरतिरखिलजनचिन्ताहरणा,
सुललितपदकुलकलितविमलकविकण्ठाभरणा ॥ १६ ॥
यथा
अरिगणमभितापयति विबुधलोकानुपगच्छति,
___ धरणिविवरगतभुजगनिकरमभितापेनर्च्छति। सकलदिगीशपुरमभिनिजतापैरभियोजयति,
भूप कथं प्रतापस्तव कोत्ति न शोषयति ॥ १७ ॥
१. ग. यासो कृच्छा । ख. या सा कच्छी । २. ग. केचिद् पण्डितः । ३. ग. प्रस्तावस्तव । *टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे गुरुवृद्धि-लघुह्रासानुक्रमेण रसिकाया अष्टौ
भेदा:
• गुरु
६६ मात्रा
१ गुरु
१ रसिका २ हंसी ३ रेखा ४ तालकिनी ५ कम्पिनी ६ गम्भीरा ७ काली ८ कलरुद्राणी
६६ लघु ६४ लघु ६२ लघु ६० लघु ५८ लघु ५६ लघु ५४ लघु ५२ लघु
५ गुरु
७ गुरु