________________
गाय वा प्रतिक्रिया
षष्ठ परिशिष्ट गाथा एवं दोहा भेदों के उदाहरण
गाथा-भेदों के उदाहरण
१. लक्ष्मीः यत्रार्यायां वर्णास्त्रिशत्संख्या लघुत्रयं तत्र । दीर्घास्तारातुल्याश्चेत्स्युः प्रोक्ता तदा लक्ष्मीः ॥१॥
२. ऋद्धिः यत्रार्यायां वर्णा एकत्रिशन्मिता यदा पञ्च । लघवः षड्विंशत्या दीर्घा ऋद्धिः समा नाम्ना ॥२॥
३. बुद्धिः यत्रार्यायां वर्णा दन्तैस्तुल्या भवन्ति चेद् दीर्घाः । तत्त्वैस्सप्तलघूनां नाम्ना बुद्धिस्तदा भवति ॥३॥
४. लज्जा यत्रार्यायां वर्णा देवैस्तुल्या जिनोन्मिता गुरवः । नवलघवश्चेत्तत्र प्रोक्ता नाम्ना तदा लज्जा ॥४॥
५. विद्या वर्णा वेदाग्निमिता गुरवो रामाश्विनिर्मिता यत्र । रुद्रमिता लघवश्चेन्नाम्ना विद्या तदा आर्या ।।५।।
६. क्षमा बाणाग्निमिता वर्णा आकृतितुल्यास्तु यत्र गुरवस्स्युः । ह्रस्वा विश्वनियमिता प्रोक्ता नाम्ना क्षमा सार्या ॥६॥
७. वही
षत्रिशन्मितवर्णाः प्रकृतिमिताः सम्भवन्ति चेद् दीर्घाः । बाणेन्दुमिता लघवः कथिता सार्या तदा देही ॥७॥
२ वृत्तमौक्तिक में गाथा और दोहा छन्द के प्रस्तार-भेद से नाम एवं संक्षेप में लक्षण प्राप्त हैं किन्तु इन भेदों के उदाहरण प्राप्त नहीं हैं अतः वाग्वल्लभ-ग्रन्थ से, इनके लक्षणयुक्त उदाहरण यहाँ प्रस्तुत किये जा रहे हैं।