Book Title: Vruttamauktik
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
गाथा और दोहा-भेवों के उदाहरण
१०. मदकल:
मनुमितगुरवो विंशतिर्लघवः सन्ति यदा च । मदकलनामाऽसौ भवेदित्थं शेष उवाच ॥ १०॥ ११. पयोधरः
नाम पयोधर इति भवेदतिरविगुरवस्सन्ति । न्यस्ता श्राकृतिसम्मिता लघवो यत्र भवन्ति ॥ ११ ॥ १२. चल:
लघवश्च
चतुर्विंशतिगुरवो द्वादश यत्र ।
स्युः फणिगणपतिरिति वदति चलनामाऽसावत्र ॥१२॥
१३. वानरः
यदा रसयममितलघवश्च ।
एकादश गुरवो नाम्ना वानर इह तदा फणिनायकभणितश्च ॥ १३॥ १४. त्रिकल:
वसुयममितलघवो यदा दश गुरवश्च भवन्ति । तदा विशिष्य त्रिकल इति नाम बुधा निगदन्ति ॥ १४ ॥
१५. कच्छपः
लघवो द्विगुणिततिथिमिता गुरवो नव यदि सन्ति । नाम्ना कच्छप इति भवति सुधियो नियतमुशन्ति ॥ १५॥
१६. मत्स्यः
यदा व सुमितगुरवस्सन्ति ।
रदपरिमितलघवो भवति मत्स्य इह खलु तदा विबुधा इति कथयन्ति ॥ १६ ॥ १७. शार्दूलः
श्रतिगणपरिमितलघव इह नगमितगुरवो यत्र । फणिगणपतिपरिभणित इति शार्दूलः स्यात्तत्र ॥ १७॥ १८. अहिवरः
रसगुणपरिमितलघव इह रसमितगुरवो यहि । हिवर इति खलु नामतः फणिपतिभणितस्तर्हि ॥ १८ ॥
१६. व्याघ्रः
वसुगुणपरिमितलघव इह शरमितगुरवश्चापि । व्याघ्रक इति भवति सनियममहिगणपतिनाऽलापि ॥ १६ ॥
[ ५१७

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678