Book Title: Vruttamauktik
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 648
________________ गाथा एवं दोहा-भेदों के उदाहरण १८. गाहिनी नवयुगपरिमितवर्णा यदि दश गुरवो भवन्ति नियतं चेत् । नगगुणपरिमितलघवस्तदनु भवति गाहिनी किल सा ।। १८ ।। १९. विश्वा वसुयुगपरिमितवर्णा यदि नव गुरवो भवन्ति लघवश्चेत् । इह नवहुतभुगभिमिताः प्रभवति फणिपतिभणितविश्वा ॥ १६ ॥ २०. वासिता नवयुगपरिमितवर्णा यदि वसुगुरवः शशियुगमितलघवः । फणिगणपतिपरिभणिता भवति तदनु वासिता किल सा ॥ २० ॥ २१. शोभा इह यदि मुनिमितगुरवो हुतभुग्जलनिधिमितास्तथा लघवः । फणिगणपतिरिति निगदति भवति सनियममियमिति शोभा ॥ २१ ॥ २२. हरिणी [ ५१५ यदि रसपरिमितगुरवः शरयुगपरिमितलघव इह तदनु चेत् । फणिपतिपरिभणिततनुः प्रभवति नियतं तदा हरिणी ॥ २२ ॥ २३. चक्री नगयुगमित लघुगण इह शरमितगुरवो भवन्ति यदि नियतम् । फणिगणपतिरिति निगदति भवति ननु सनियममिह चत्री || २३ | २४. सरसी जलनिधिपरिमितगुरवो यदि नवजलधिपरिमितलघव इह चेत् । भुजगाधिप इति कथयति भवति नियतविहिततनु सरसी ||२४|| २५. कुररी स्युरथ गुणमितगुरव इह यदि शशधरशरपरिमितलघव इति च । फणिगणपतिरिति निगदति भवति लसद्यतिरियं कुररी || २५ ।। २६. सिंह द्विकगुरुगुणशरपरिमितलघुविरचिततनुरिह यदि च भवति किल । गणपतिरिति कथयति नियतजनितविरतिरथ सिंही ॥ २६ ॥ २७. हंसी, हंसपदवी च शशिमितगुरुशरशरमितलघुविरचिततनुरियमिह यदि विलसति । फणिगणपतिभणितविरतिहंसपदविरथ नियतकृतयति ॥ २७॥

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678