________________
गाथा एवं दोहा-भेदों के उदाहरण
१८. गाहिनी
नवयुगपरिमितवर्णा यदि दश गुरवो भवन्ति नियतं चेत् । नगगुणपरिमितलघवस्तदनु भवति गाहिनी किल सा ।। १८ ।।
१९. विश्वा
वसुयुगपरिमितवर्णा यदि नव गुरवो भवन्ति लघवश्चेत् । इह नवहुतभुगभिमिताः प्रभवति फणिपतिभणितविश्वा ॥ १६ ॥
२०. वासिता
नवयुगपरिमितवर्णा यदि वसुगुरवः शशियुगमितलघवः । फणिगणपतिपरिभणिता भवति तदनु वासिता किल सा ॥ २० ॥ २१. शोभा
इह यदि मुनिमितगुरवो हुतभुग्जलनिधिमितास्तथा लघवः । फणिगणपतिरिति निगदति भवति सनियममियमिति शोभा ॥ २१ ॥ २२. हरिणी
[ ५१५
यदि रसपरिमितगुरवः शरयुगपरिमितलघव इह तदनु चेत् । फणिपतिपरिभणिततनुः प्रभवति नियतं तदा हरिणी ॥ २२ ॥ २३. चक्री नगयुगमित लघुगण इह शरमितगुरवो भवन्ति यदि नियतम् । फणिगणपतिरिति निगदति भवति ननु सनियममिह चत्री || २३ | २४. सरसी जलनिधिपरिमितगुरवो यदि नवजलधिपरिमितलघव इह चेत् । भुजगाधिप इति कथयति भवति नियतविहिततनु सरसी ||२४|| २५. कुररी स्युरथ गुणमितगुरव इह यदि शशधरशरपरिमितलघव इति च । फणिगणपतिरिति निगदति भवति लसद्यतिरियं कुररी || २५ ।। २६. सिंह
द्विकगुरुगुणशरपरिमितलघुविरचिततनुरिह यदि च भवति किल । गणपतिरिति कथयति नियतजनितविरतिरथ सिंही ॥ २६ ॥ २७. हंसी, हंसपदवी च
शशिमितगुरुशरशरमितलघुविरचिततनुरियमिह यदि विलसति । फणिगणपतिभणितविरतिहंसपदविरथ
नियतकृतयति ॥ २७॥