________________
वृत्तमौक्तिक-षष्ठ परिशिष्ट
www
८. गौरी सप्ताग्निमिता वर्णा नखमितगुरवो घनोन्मिता लघवः । यत्र स्युः किल सार्या तर्हि भवेन्नामतो गौरी ॥८॥
६. धात्री, रात्री च वसुगुणतुल्या वर्णा गुरवो लघवो यदातिधृतितुल्याः । फणिपप्रोक्ता सार्या भवति तदा नामतो धात्री ॥६॥
१०. चूर्णा नवगुणपरिमितवर्णा धृतिमितदीर्घा भवन्ति चेद्धस्वाः । प्रकृतिमिता यदि सार्या प्रोक्ता नाम्ना तदा चूर्णा ।।१०।।
११. छाया द्विगुणितनखमितवर्णा घनमितदीर्घा भवन्ति चेद्धस्वाः । विकृतिमिता यदि सार्या कथिता नाम्ना तदा छाया ॥११॥
१२. कान्तिः शशियुगपरिमितवर्णा अष्टिप्रमिता भवन्ति चेद्गुरवः । शरकृतिपरिमितलघवो नाम्ना सार्या भवेत् कान्तिः ।।१२।।
१३. महामाया यमयुगपरिमितवर्णास्तिथिमितगुरवश्च भोन्मिता लघवः । सार्या भवति तदानीं फणिना कथिता महामाया ।।१३।।
१४. कोत्तिः गुणयुगपरिमितवर्णा मनुमितगुरवो नवाश्विमितलघवः । स्युर्यदि यत्र च सार्या फणिना कथिता तदा कीत्तिः ॥१४।।
१५. सिद्धा श्रुतियुगपरिमितवर्णा अतिरवितुल्या भवन्ति चेद्गुरवः । शशधरगुणमितलघवः प्रभवति सा नामतस्सिद्धा ॥१५॥
१६. मानिनी, मनोरमा च शरयुगपरिमितवर्णा रविमितगुरवश्च देवमितलघवः । यदि फणिगणपतिभणिता सार्या खलु मानिनी ज्ञेया ।।१६।।
१७. रामा रसयुगपरिमितवर्णाः शिवमितगुरवो भवन्ति यदि नियतम् । शरगुणपरिमितलघवो यत्र भवति सोदिता रामा ॥१७॥