________________
वृत्तमौक्तिक-षष्ठ परिशिष्ट
दोहा-भेदों के उदाहरण
१. भ्रमरः यत्र स्युर्दीर्घास्त्रयोविंशत्या तुल्याश्च । द्वौ ह्रस्वौ स्यातां यदा पूर्वःस्यान्नाम्ना च ॥१॥
२. भ्रामरः द्वाविंशत्या सम्मिता दीर्घा ह्रस्वा यत्र । चत्वारः स्युमिरो नाम्नाऽसो स्यादत्र ॥२॥
३. सरभः चेत्स्युर्भू दस्रोन्मिता दीर्घा ह्रस्वा यहिं । षण्णागेशेनोदितो नाम्ना सरभस्तहि ॥३॥
४. श्येनः दीर्घा विंशत्या मिता अष्टौ लघवो यत्र । पिङ्गलनागप्रोदितः । श्येनः स्यादित्यत्र ॥४॥
५. मण्डूक: दीर्घा अतिधृत्युन्मिता हस्वाः स्युर्दश यहि । . ब्रूतेऽनन्तो नामतो मण्डूकं किल तहि ॥५॥
६. मर्कट: दीर्घाः स्यु तिसम्मिता ह्रस्वा द्वादश यत्र । पिङ्गलनागेनोदितो मर्कटनामा तत्र ॥६॥
७. करभः दीर्घाः स्युर्घनसम्मिता इन्द्रमिता लघवश्च । ब्रूते शेषो यदि तदा नाम्नाऽसौ करभश्च ॥७॥
८. नरः षोडश गुरवः सन्ति चेल्लघवो यत्र किलापि । पिङ्गलनागेनाऽसको नाम्ना नर आलापि ॥८॥
९. मरालः अष्टादश लघवो यदा गुरवः पञ्चदशैव । मरालनामेत्यहिपतिः शेषो वक्ति तदैव ।।६।।