________________
वर्णमेरु-प्रकरणम्
वर्णमेरुमाह
कोष्ठानेकाधिकान् वर्णैः कुर्यादाद्यन्तयोः पुनः । एकाङ्कमुपरिस्थाङ्क - द्वयैरन्यान् प्रपूरयेत् [॥ ५७ ॥]
यस्य छन्दसो यावन्तो वर्णास्तावन्तः कोष्ठा एकेनाधिकाः कर्तव्याः । तत्रापि आद्यन्तकोशद्वये एकाङ्कन्यासः, ततः पुनः उपरिस्थाङ्कयोः कोशयोर्मीलनेन विचालस्थकोशपूरणं कार्यम् । यथा-द्विकवर्णच्छन्दसो द्वे रूपे-एकं गुरुकं १, एक लघुकं च २, एवं कोशद्वयम् । द्विवर्णच्छन्दसोपि चत्वारि रूपाणि-55, 15, 51,।।, इति । एकं सर्वगुरुकं, द्वे रूपे एकगुरुके, एकं सर्वलघुकं, एवं उपरितनकोशद्वयाङ्की ११ तयोर्मेलने द्वाविति मध्यकोशे द्विकन्यासः । त्रिवर्णच्छन्दसोष्टरूपाणि-एक सर्वगुरु 555, त्रीणि द्विगुरूणि २, ३, ५, त्रीणि एकगुरूणि ४, ६, ७, एकं सर्वमघु, मध्ये कोशद्वये ३।३ न्यासः, उपरिस्थ १।२ मेलने जातः । चतुर्वर्णच्छन्दसि षोडशरूपाणि-एक सर्वगुरु पाद्य, चत्वारि एक गुरूणि ८, १२, १४, १५, षट् द्विगुरूणि ४, ६, ७, १०, ११, १३, चत्वारि त्रिगुरूणि २, ३, ५, ६, एक सर्वलघु, एवं षोडशरूपा । विचालकोशत्रये ११३ मेलने ४ प्रथम-मध्यकोशपूरणं, उपरितन ३।३ मेलने ६ द्वितीयमध्यकोशे, तृतीयेपि १।३ मेलने ४ इति, एवमग्रेपि । 'वर्णमेरुरयं' इत्यादि स्पष्टम् ।। ५८ ॥