________________
वर्णपताका-प्रकरण
[ ३४७
त्रिवर्णे छन्दसि १२२ योजने ३ द्विकाधः, पुनः २।४ मेलने ६ परत: सिद्धोऽङ्कः, पुनः २।३ योजने ५, पुनः ४।३ योजने ७, पुनः ४।३ योगे ७ शेषाङ्काभावात् । एवं एकं रूपं सर्वगं, द्वितीय-तृतीय-पञ्चमानि रूपाणि एकेन गुरुणा ऊनानि त्रीणि रूपाणि द्विगुरूणि, ४, ६, ७ रूपाणि गुरुद्वयोनानि एक गुरूणि त्रीणि, एक अष्टमं सर्वलघुकमिति अग्रेपि मन्तव्यम् ।
सुखेन अग्रेपि करणज्ञानाय विधिः
११२ योजने ३, पुनः ४।२ योजने ६, पुनः ८।४ योजने १२, द्वितीया कोशश्रेणिः, १६ त्यागः सिद्धाङ्कत्वात् । अस्याः श्रेणेरप्यधः २।३ योजने ५, पुनः ४।३ योजने ७, पुनः ८।६ योजने १४ तृतीया श्रेणिः। तस्या अधः ४।५ योजने ६, पुनः ४१६ योजने १०, पुनः ८७ योजने १५ तुर्याश्रेणिः । ६।५ योजने ११, पुनः ६७ योजने १३, एवं श्रेणिद्वयं एककोशम्। एवं एकं रूपं सर्वगं प्रथमपङक्ती । द्वितीयपङ्क्तौ २।३।५६ चत्वारि रूपाणि एक गुरुणा ऊनानि त्रिगुरूणि । [तृतीयपङ क्तो) ४।६।७।१०।११।१३ इति षड्रूपाणि द्विगुरूणि । (चतुर्थपङक्तो] ८।१२।१४।१५ एतानि एकगुरूणि । [पञ्चमपङ क्तौ) षोडशं सर्वलघु, एवं षोडशरूपाणि ।