________________
- २० ]
ईश्वरनिरास:
स्वरूपेणासद्रूपत्वात् खरविषाणवदिति सत्तासमवायस्यासंभवाच्च स्वरूपासिद्धत्यं हेतोः सिद्धम् । अथ सद्रूपस्य न भवत्य सद्रूपस्यापि न भवति किंतु सदसद्विलक्षणस्यैव' सत्तासमवाय इति चेन्न । सदसद्विलक्षणस्थानिर्वाच्यस्योत्पत्यङ्गीकारे यौगानां त्वपसिद्धान्तात् । मायावादि मतप्रवेशप्रसंगाच्च । अथ सदसद्रूपस्य सत्तासमवाय इति चेन्न । एकस्य स्वरूपेण सदसद्रूपत्वविरोधात् । स तर्हि जैनानां सदसदनेकान्तः कथं भविष्यतीति चेत् । स्वरूपेण सचं पररूपेणासत्त्वं स्वावष्टब्धक्षेत्रे सवमन्यत्रासच्वं स्ववर्तमानकाले सच्वमन्यदा असखमिति विषय " देशकाल - भेदेन विरोधस्य परिहृतत्वादिति ब्रूमः । अथास्माकमपि स्वरूपेण सतः पररूपेणासतः सत्तासमवायो भविष्यतीति चेन्न । स्वरूपेण सतः सत्तासमवाये" सामान्यादीनां सत्तासमवायः स्यादित्यतिप्रसज्यते । तस्मात् सत्तासमवायस्यासंभवात् स्वरूपासिद्धत्वं हेतोः समर्थितमेव ।
सींग के समान शून्यरूप होगी । यह वस्तु सत् और असत् दोनों से भिन्न अनिर्वाच्य है यह कहना भी न्यायदर्शन में सम्भव नहीं - यह तो मायावादियों का मत है । यह वस्तु सत् और असत् दोनों है यह कहना भी ठीक नहीं क्यों कि एकही वस्तु स्वरूप से सत् और असत् दोनों नहीं हो सकती । फिर जैन मत में वस्तु को कथंचित् सत् तथा कथंचित् असत् कैसे माना है यह आक्षेप होता है - उत्तर यह है कि हम वस्तु को स्वरूप से सत् और पररूप से असत्, अपने काल तथा क्षेत्र में सत्, दूसरे काल तथा क्षेत्र में असत् मानते हैं - एकही स्वरूप से सत् तथा असत् दोनों नहीं मानते । न्यायदर्शन में वस्तु को स्वरूप से सत् माना जाय तो सत्तासमवाय की जरूरत नहीं रहती सामान्य आदि सत्तासमवाय के बिनाही सत् हैं यह उपर्युक्त
आक्षेप दूर नहीं किया जा
सकता ।
—
Jain Education International
४७
१ पदार्थस्य । २ ब्रह्माद्वैतवादि । ३ एकस्मिन् पदार्थे सदसद्रूपं विरुध्यते ४ पदार्थः स्वरूपमित्यर्थः । ५ अङ्गीक्रियमाणे । ६ सामान्यं स्वरूपेण सत् वर्तते परंतु तस्य नास्ति सत्तासमवायः ।
इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org