________________
-३८]
१०९
निरवयवत्वात् अनणुकत्वे सति बाह्येन्द्रियाग्राह्यत्वात् अजडत्वात् अर्थावबोधकत्वात् व्यतिरेके चर्मादिवत्' । ननु ज्ञानं न स्वसंवेद्यं शरीरकार्यत्वात् उच्छ्वासवदिति चेन्न । एतस्य हेतोरपि पूर्ववद सिद्धत्वात् । कुतः ज्ञानं शरीरकार्य न भवति इत्यत्रापि उक्त हेतूनां समानत्वात् । ननु ज्ञानं न स्वसंवेद्यं शरीरगुणत्वात् रूपादिवदिति चेन्न । ज्ञानस्य शरीरगुणत्वासिद्धेः । कुतः शानं न शरीरगुणः चेतनत्वात् अणुद्रयणुकानाधितत्वे सति बाह्येन्द्रियाग्राह्यत्वात् अजडत्वात् स्वप्रतिबद्ध व्यवहारे संशयादिव्युदासाय परानपेक्षत्वात् अर्थावबोधरूपत्वाच्च व्यतिरेके शरीररूपवदिति । तस्मात् ज्ञानं स्वसंवेद्यम् अर्थसंवेदनरूपत्वात् स्वप्रतिबद्ध व्यवहारे संशयादिव्युदासाय परानपेक्षत्वात् अजडत्वात् चिद्रूपत्वात् च व्यतिरेके पटादिवदिति चार्वाकं प्रति ज्ञानस्य स्वसंवेदनत्वसिद्धिः ।
प्रामाण्यविचारः
ननु ज्ञानं न स्वसंवेद्यं प्रकृतिपरिणामत्वात् पटादिवदिति चेन्न । ज्ञानस्य प्रकृति परिणामत्वासिद्धेः । अथ ज्ञानं प्रकृतिपरिणामः उत्पत्तिमत्त्वात् पटादिवदिति' ज्ञानस्य प्रकृतिपरिणामत्वसिद्धिरिति चेन्न । अनुअग्राह्य है तथा शरीर अचेतन, मूर्त, सावयव, बाह्य इन्द्रियों से ग्राह्य है इस प्रकार इन दोनों की भिन्नता पहले स्पष्ट की है । इसी प्रकार ज्ञान को शरीर का कार्य अथवा शरीर का गुण मानने का भी पहले खण्डन किया है | अतः ज्ञान के स्वसंवेद्य होने में यह कोई बाधा नही है | ज्ञान के विषय में कोई सन्देह हो तो उस का निराकरण ज्ञान द्वारा ही होता है - किसी दूसरे द्वारा नही होता अतः ज्ञान को स्वसंवेद्य मानना चाहिये - इस प्रकार चार्वाकों की आपत्ति का निराकरण हुआ ।
अब सांख्यों की आपत्ति का विचार करते हैं । ज्ञान प्रकृति का परिणाम है ( अतः जड है इस लिए ) - वह वस्त्र आदि के ही समान १ यच्छरीरात्मकं भवति तच्चेतनं न भवति यथा चर्मादि । २ ज्ञानं शरीरात्मकं न भवति चेतनत्वादित्यादयः । ३ अणुद्वयणुकव्यतिरिक्ते सति । ४ यस्तु शरीरगुणः स न चेतनः यथा शरीररूपम् । ५ यत् स्वसंवेद्यं न भवति तत् अर्थवेदनरूपं न भवति यथा पटः । ६ अथ सांख्यः प्रत्यवतिष्ठते । ७ प्रकृतिरचेतनाज्ञानमपि सांख्यमते अचेतनम्। ८ यस्तु उत्पत्तिमान् स प्रकृतिपरिणामः यथा पटादिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org