Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राम स्थितामपित।
रामसन्निधानमात्रेणादल्या मुक्तशापा स्वरूप प्राप्तत्याह-ददर्श चेति, साईश्लोकद्वयम् । तपसा वाय्वाहारवादितपसा । योतितप्रभा अतिशयित प्रभाम् । अतएव लोकर्मानुषैः सुरासुरैरपि समागम्य समीपमागत्य दुर्निरीक्ष्यां दिव्यां अतिमानुषरूपां मायामयीमिव मायानिर्मितामिव स्थिताम् । वृक्ष ।
ददर्श च महाभागां तपसा द्योतितप्रभाम् । लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ १४॥ प्रयत्नानिर्मिता धात्रा दिव्यां मायामयीमिव । सतुषारावृतांसाभ्रां पूर्णचन्द्रप्रभामिव । मध्येऽम्भसो दुराधर्षा दीप्ता सूर्यप्रभामिव ॥ १५॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् । शापस्यान्तमुपा
गम्य तेषां दर्शनमागता ॥१६॥ लताकुसुमान्तर्वर्तित्वेन सतुषारावरणां सानां चन्द्रप्रभामिव स्थिताम् । आवृतशब्द आवरणार्थकः । भावे निष्ठा । स इति भिन्नं पदं वा । मध्य इति अकौर्यदुर्निरीक्ष्यत्वाभ्यां प्रतिबिम्बसूर्यप्रभातुल्याम् ॥ ११ ॥ १५ ॥ अदृश्या सा कथमिदानीं दृश्यासीदित्यवाह सार्धन-सा हीत्यादि ॥ १६ ॥ ददर्शेत्यादि सार्धश्लोकद्वयमेकान्वयम् । सतुषारावृतामित्यत्र स इति छेदः । स रामो महाभागः अहल्यां ददशेन्यन्वयः। अहल्यां विशिनष्टि-तपसेति । तपसा नपोमहिना । द्योतितप्रभा बहिरदृश्यत्वेऽपि अन्तरेव भासमानामित्यर्थः । सुरासुरैस्तदूपैः लोकेर्जनेः समागम्यापि दुनिरीक्ष्यां दिव्याम अमानुषलावण्यशालिनी मित्यर्थः । मायामयीमिव मायानिर्मितामिव, विस्मयकरीमित्यर्थः । किञ्च मध्य इति अम्भसः लक्षणया जलाधारस्य मेधस्येत्यर्थः । मध्ये स्थितामिति शेषः ।। दीप्तां सर्वप्रभामिव दुराधर्षा दुष्पापाम् । निविडजलधरसंभृतां सूर्यप्रभामिव द्रष्टुमशक्यामित्यर्थः ॥ १४ ॥ १५ ॥ सा अहल्या यावद्रामदर्शनं सावनिरीक्ष्यति पूर्वेणान्वयः। शापस्येति । शापस्यान्न, रामदर्शनादिति शेषः । तेषां विश्वामित्रादीनां दर्शनमागता प्राप्ता ॥ १६॥ मवविषयत्वात् सर्वस्या अपि मेषजातविश्लेषिताव्यवसंयोजन कृतमिति भावः । यदा इन्द्रस्य मेषबीजप्रदानकालानन्तरं श्राद्धकाले पितृदेवाः भागताः अफलान् ये बीजरहितान् मेघान् भुतते । मेघवीजस्य इन्द्रा चीनत्वात् । अफलान भुक्त्वा, तेषां तान् कर्मकतन् । कर्मणि धष्ठी । फलैः पूर्व सफलमेधकृतकर्मभिर्यानि फलानि भवन्ति तैः फलैः समपोजयन् । यहा तेषां कर्मकर्तृणां अनुष्ठानमिति शेषः । फलैः कर्मफलैः समयोजयनित्यर्थः ॥ १०॥१९॥
१ भिव । धूमेनापि परीताङ्गी दीप्तामग्निशिखामिव । इत्यधिकः पाठः ।
For Private And Personal Use Only

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468