Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 431
________________ Shri Mahave Jain Aradhana Kendra www.kabalih.org Acharya Shri Kalassagarsun Gyanmandir स्वपुरे तदागमनप्रसक्तिं दर्शयति विश्वामित्रपुरस्सरेरिति । यदृच्छया मद्भागधेयात् । पुत्रकेः पूजायां बहुवचनम् । जामातृत्वाध्यवसायात महा राजकुमारत्वादा पूजा। अल्पार्थेन कप्रत्ययेन बाल्यं घोतितम् ॥ ८॥ कथं निजितेत्यत्राह-तचेति । तच्च ऐश्वरमपि । नेदमैन्द्रजालिकमित्याह महात्मनेति । नेयं पक्षपातोक्तिरित्याह महत्यामिति ॥ ९॥ प्रतिज्ञा प्रतिज्ञातं सीताप्रदानम् ॥ १०॥११॥ प्रीतिं त्वदर्शनप्रीतिं सीताप्रदानप्रीति तच्च राजन धनुर्दिव्यं मध्ये भग्नं महात्मना । रामेण हि महाराजमहत्यां जनसंसदि ॥९॥अस्मै देया मयासीता वीर्यशुल्का महात्मने । प्रतिज्ञा कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥१०॥ सोपाध्यायोमहाराज पुरोहितपुरस्सरः । शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ ११॥ प्रीतिं च ममराजेन्द्र निर्वर्तयितुमर्हसि । पुत्रयोरुभयोरेव प्रीति त्वमपि लफ्यसे ॥ १२ ॥ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् । विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥१४॥ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः । लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥ दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६॥ वा । पुत्रयोः पुत्री च पुत्रश्च तयोः । एकशेषः । प्रीति तद्विषयप्रीतिम्, तदुभयकल्याणदर्शनप्रीतिमितियावत् । मत्पुत्र्यां त्वत्पुत्रे चेत्यर्थः । यदा स्नुषा च पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोमिलाप्रदानं सिद्धं कृत्वोच्यते उभयोरिति ॥ १२-१४ ॥ गुप्त इत्यादि । विदेहेषु विदेहानां निवास भूते देशे। “जनपदे लुप्" इतिलुप् । असाविति बुद्धिसन्निकर्षणोच्यते ॥ १५॥ १६ ॥ द्विवचनेन भाव्यम् , प्रयुक्तं बहुवचनम् । एवं मन्यते प्रयोक्ता-सर्व लोकसन्ततसङ्घष्यमाणसौभ्रात्रातिशयश्रवणवासनाप्रत्यस्तमितभेदादेकेन कृतमपि सर्वैः कृत मिति संप्रदायः । यद्वा निजेंतकस्मिन् रामभद्रे बहुवचनप्रयोगस्तु इतरनृपतिदुरारोपशङ्करशरासनभङ्गाद्यमानुषतदीयपौरुषविशेषजनितबहुमानादिति द्रष्टव्यम् An८॥ तच्चेति । तच्च तदपि । पूर्व वक्षाध्वरध्वंसनसमये । रुद्रेण येन साधनेन पुरन्दरपुरस्सरसुरनिकरपलायनं कृतं तदपीत्यर्थः ॥९॥ अस्मा इति। प्रतिज्ञा प्रतिज्ञातं सीतापदानं कर्तुमिच्छामि तदनुज्ञातुमनुमन्तुमर्हसि ॥१०॥११॥ प्रीतिमिति । प्रीतिं दर्शन जनितामिति शेषः । लप्स्यस एवेति सम्बन्धः ॥ १२-१४ ॥ गुप्त इति । १ स्थितः । इत्युक्त्वा विरता दूता राजगौरवशतिताः । इत्याधः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468