Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. १८८।।
www.kobatirth.org
अथ जामदग्न्यगर्वनिर्वापूर्ण षट्सप्ततितमे - श्रुत्वेत्यादि । पितुगौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स टी.बा.कॉ. तथा ॥ १ ॥ श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामड़े अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ॥ २ ॥ वीर्येति । वीर्यहीनम् । अतएव क्षत्रधर्मेण प्राप्तधनुर्ग्रहण
स० ७६
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १ ॥ श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ २ ॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव । अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३ ॥ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् । शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ॥ ४॥ आरोप्य स धन् रामश्शरं सज्यं चकार ह । जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवी द्वचः ॥ ५ ॥ ब्राह्मणोऽसीति पूज्यो में विश्वामित्रकृतेन च । तस्माच्छको न ते राम मोक्तुं प्राणहरं शरम् ॥ ६॥ इमां पादगतिं राम तपोबलसमार्जितान् । लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ ७ ॥
Acharya Shri Kalassagarsuri Gyanmandir
युद्धाद। अशक्तमिव मन्यमानो यन्माम् अवजानासि क्षत्रधर्म पुरस्कृत्य इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । " अस्मदो द्वयोश्च " इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावा सहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य । ३-५ ॥ विश्वामित्रकृतेन विश्वामित्र कृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः || ६ || ते तुभ्यम् । पादयोर्गतिं श्रुत्वेति । गौरवाद्यन्त्रितकथ इति पितुगौरवानियामितवचनः । पितृसन्निधानाद्विनीतभाषीत्यर्थः ॥ १ ॥ श्रुतवानिति । हे भार्गव ! यत् क्षत्रवधादि कर्म कृतवानसि तच्छ्रुतवानस्मि । अनुरुन्ध्यामहे अनुसरामः । पितृहन्तॄणां क्षत्रियाणां वधेन वैरनिर्यातनं पितुरानृण्यम् आस्थितं कृतवन्तम् पितृभक्त्या खल्वेतत क्षत्रियविनाशनं कृतवान् पितुरानृण्यं पुत्राणां कर्तव्यमिति भवत्कृतं क्षत्रविशसनं सहामह इत्यर्थः । क्षत्रियसाधारण्येन मदवज्ञां सहामह इति भावः ॥ २४ ॥ आरोप्येति शरं सज्यं मौर्या सहितं चकार तस्यां समधत्तेत्यर्थः ॥ ५ ॥ ब्राह्मण इति । विश्वामित्रकृतेन विश्वामित्रार्थं च । अत्र तादवाची कृतशब्दः । विश्वामित्रभगिनी सत्यवती, तस्यामृचीकाज्जातो जमदग्निः, तस्य पुत्रोऽयमिति तव विश्वामित्रसम्बन्धं दृष्ट्वेत्यर्थः । तस्मात्कारणद्वयात् ॥ ६ ॥ मामिति । तपोबलेन समार्जित न्
For Private And Personal Use Only
ዘ መሪ

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468