Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
जनकाय देवाददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रूयताम् पूर्वदेवास्त्रिपुरवधाय विश्वकर्मणा । निर्मितं धनूरुद्धाय ददुः । तदक्षयज्ञान्ते विरोधे विष्णुहुङ्कारेण जृम्भितं, देवैः प्रार्थिता रुदो देवरातस्य हस्तं दत्तवान् । ततःप्रभृति न्यासभावेन मैथिलषु वर्त ।
इदं च वैष्णवं राम धनुः परपुरञ्जयम् ।ऋचीके भागवे प्रादाद्विष्णुः संन्यासमुत्तमम् ॥२१॥ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः । पितुर्मम ददौ दिव्यं जमदग्नेमहात्मनः ॥ २२ ॥ न्यस्तराने पितरि मे तपोवलसमन्विते । अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥ वधमप्रतिरूपंतु पितुः श्रुत्वा मुदारुणम् । क्षत्रमुत्सादयन् रोषाज्जातंजातमनेकशः ॥२४॥ पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने। यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २५॥ दत्त्वा महेन्द्रनिलयस्तपोवलसमन्वितः । श्रुतवान् धनुषो भेदं ततोऽहं इतमागतः ॥२६॥ तदिदं वैष्णवं राम पितृपैतामहं महत् । क्षत्रधर्म पुरस्कृत्य गृहीवधनुरुत्तमम् ॥२७॥ योजयस्वधनुश्श्रेष्टे
शरं परपुरञ्जयम् । यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः॥२८॥इत्यारे-वा-पञ्चसप्ततितमः सर्गः॥७५॥ मानं तत्स्वत्वेन देवा वरुणेन जनकायादापयन्नितिक्रमः । तेन दक्षयज्ञान्त धनुनिवचनं देवैर्जनकस्य यज्ञफलत्वन दानवचनं वरुणेन दत्तत्ववचनं च सम असं भवति ॥१९-२२॥ अर्जुनः कार्तवीर्यार्जुनः॥२३॥ अनेकशः विःसप्तकृत्वः ॥२४-२६॥ तदिदमिति । उत्तमम् अशिथिलमित्यर्थः। पितृपैतामह पितृपितामहकमायातम् । उत्तरपदवृद्धिरार्षी । क्षत्रधर्ममिति ब्राह्मणवनशक्त इति मा ब्रहीत्यर्थः ॥ २७॥ यदि शनोपि तावतापि न त्वां मुञ्चामि अपि तु ततः अनन्तरम् इन्दयुद्धं दास्यामि । वीर्यपरीक्षणार्थमिदमिति भावः॥२८॥ इति श्रीगो श्रीगमा मणिम बालकाण्ड पञ्चसप्ततितमः सर्गः॥७॥ इदं च वैष्णवमिनि । इदं मत्करस्थितं धनुः । वैष्णवं विष्णुसम्बन्धि ॥ २१॥ वैष्णवधनुषः स्वहस्तागतिप्रकारमाह-ऋचीक इत्यादि । विष्णुः शितिकण्ठपराजया ननर चीक न्यास न्यासरूपेण प्रादादित्यर्थः ॥ २२ ॥ न्यस्तशख इत्यादि। मत्पितरि न्यस्तशस्त्रे न्यस्तधनुषि तपोबलसमन्विते सति । अर्जुनः कार्तवीर्यः। भाकृता तामसीम, देहात्मबुद्धिमित्यर्थः । देहात्मबुद्धयुत्पत्तावेव खल्वकृत्यप्रवृत्तिः॥ २३-२७ ॥ योजयस्वेति । यदि शक्रोषि काकुत्स्येति । शरसन्धान इति शेषः ॥ २४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारल्यायो बालकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः॥ ७५॥
१ समन्वितः । स्थितास्मि बास्मस्तप्यन्ध सुमुख सुरसविन । अातूनमधील या राम महाबल ॥ इत्यधिकः ।
For Private And Personal Use Only

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468