Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तत्रैव सर्वदा परिवर्तमानत्वात् इत्युक्तं पूर्वार्धे ॥२७॥ रामवत् सीतापि रामहृदयं विशेषेण व्यक्तं वेत्तीत्याह-तस्येति । तस्य रामस्य हृदयं । सीता भूयो विशेषेण रामादतिरिक्तं जानातीत्यर्थः । रामो यादृशभोगमभिलपति तदिङ्गितेन ज्ञात्वा स्वयं तदनुरूपा भवति, नतु तदतिरिक्तभोग मभिलपते । एवं रामोऽपीति भावः । रामादप्यतिशयेन सीतायाः कान्तेजितपरिज्ञाने हेतुचष्टयमाह मैथिलीत्यादि । देशस्वभावादंशस्वभावाच्च सूक्ष्मज्ञा। देवताभिः समेति प्रागल्भ्यमुच्यते । रूपे विषये रूपिणी सदृश्यमानरूपवती श्रीखि स्थिता । अनेन सहजबुद्धिविशेषो दर्शितः ॥२८॥ तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥ २८ ॥
तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ॥ २९॥ इत्यार्षे श्रीरामायणे आदिकाव्ये वाल्मीकीये चतुर्विशत्सहस्रिकायां संहितायां श्रीमदबालकाण्डे
सप्तसप्ततितमः सर्गः ॥ ७७ ॥ इति श्रीमहालकाण्डः समाप्तः ॥ श्रीरस्तु ॥ एवमनवधिकमन्योन्यानुरागमुपपाद्य तदनुरूपं भोगं दर्शयति-तयेति । राजर्षिसुतः महाराजसुतत्वेन निरवधिकभोगोपकरणवान् । उत्तमराजकन्यया ततोऽप्यधिकतदुपकरणवत्या । रामःरमयिता । अभिरामया ततोऽप्यतिशयेन रमयिया । सः अतिशयितकामः । अतिकामया रामादप्यधिककामये त्यर्थः । तया सीतया। समेयिवान् सम्यगेयिवान् । एकीभावेन संश्लिष्टः स्वयंग्रहाश्शेषविषयीभूतःसन् “लीनेव प्रतिविम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्वेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥" इतिवत् । विभुःप्रत्यालिङ्गनादिसमर्थः। अमरेश्वरो विष्णुःआदिविष्णुः। श्रियेवमूर्तिभेदेनोपमानत्वम् । अतीव अतिशयेन शुशुभे रेजे। तुल्यानुरागस्य । Mविशेषेण अतिशयेन । एतदुक्तं भवति-परस्परहृदयान्तर्वर्तनेन परस्परस्वभावमुभी जानाते इति ॥ २७ ॥ २८ ॥ तया स इति । अभिरामया अभिरूपया अति
For Private And Personal Use Only

Page Navigation
1 ... 463 464 465 466 467 468