Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू.
॥१९२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
टी.बा.
अतिशयितस्त्रीकामस्य । भोगसमृद्धिहेतुत्वादिति भावः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्ड | व्याख्याने सप्तसप्ततितमः सर्गः ॥७७॥ वेदे शास्त्रेषु वादेप्यनितरसुलभां कीर्तिमाटीकमानः काव्यालङ्कारनाट्यप्रभृतिषु पटुधीः कोपि टीकाविधाने । स० ॐ शुद्धान्तः पद्मशुद्धान्तितमधुमथनः शुद्धसत्त्वैकमूर्तिगोविन्दाय विचार्य्य व्यतनुत विमलां बालकाण्डस्य टीकाम् ॥ श्रीरघुनन्दनपरब्रह्मणे नमः ॥
तनि०- राजर्षिसुत इति उत्तमराजकन्ययेति च अभिजनवृत्तादितौल्यमुक्तम् । अभिरामया सौन्दर्येणातिरमणीयया अतिकामया अतिस्नेहया समेयिवान् । अति संश्लेषेण अभेदं प्राप्तः । यद्वा अतिकामया अतिक्रान्तमन्मथया । तेनाप्राकृतविग्रहवत्तया दिव्यदम्पतिभोग एवात्राभिव्यज्यते ॥ २९ ॥ इति श्री अहोचलाचार्या नुवादिता श्रीमद्वालकाण्डतनिश्लोकीव्याखा समाप्ता ॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥
कामया अनुरक्तया भर्तरि अतिस्नेहया तथा समेयिवान सङ्गतः । अमरेश्वरो विष्णुः श्रियेव शुशुभ इति सम्बन्धः ॥ २९ ॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्य श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तसप्ततितमः सर्गः ॥ ७७ ॥
महेशतीर्थरचिता रामपादसमर्पिता । श्रीबालकाण्डव्याख्येयं समाप्ता तत्त्वदीपिका ॥
इति श्रीरामायणे वालकाण्डः समाप्तः ॥
For Private And Personal Use Only

Page Navigation
1 ... 464 465 466 467 468