Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 455
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir नित्यपृच्छन्नित्यर्थः ॥ १४ ॥ अभिप्राय विति । पूर्व वराहादिरूपेण भूम्युद्धरणादिकरणेन विष्णुरधिक इति स्तुवतस्त्वत्तः श्रुतम् । अधुना विष्णुमुप सर्जनीकृत्य विपुरहननादुद्रस्याधिकबलत्वं प्रतीयत इत्यभिप्रायमित्यर्थः । सत्यवांवर इत्यनेन बहुश उपदेशेऽपि नेषां चित्तं समाधत्ते। अतः क्रिययैव वलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोध जनयामासेति गम्यते । अहं धन्वी प्रधानः विष्णुस्तु ममोपसर्जन इत्युक्तं रुद्रेणोति विष्णुं प्रत्युक्त्वा शरा। प्रतया मयावसानान्मयैव त्रिपुरहननं कृतमिति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्वा च विरोधजननमित्यवगम्यते ॥ १५ ॥ १६॥ जृम्भितमित्यत्रापि हुक्कारे अभिप्रायं तु विज्ञाय देवतानां पितामहः। विरोधं जनयामास तयोः सत्यवतां वरः ॥ १५॥ विरोधे च महाद्ध मभवद्रोमहर्षणम् । शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ॥१६॥ तदा तु जृम्भितं शैवं धनुभीमपराक्रमम् । हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥१७॥ देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः । याचितौ प्रशमं तत्र | जग्मतुस्तौ सुरोत्तमौ ॥१८॥ जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराकमैः। अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा॥१९॥ त्यनुषज्यते। जृम्भितं भग्नमितियावत् । हुकारेण न त्वभिमम्बितबाणेन । महादेवः महादेवशब्दो महावृक्षसमाख्यायित इति भावः। त्रिलोचन इत्यनेन तृतीयं लोचनमपि निरर्थकं कृतमिति भावः ॥१७॥ तनि०-न केवलं धनुषो जृम्भणम् ,किन्तु तदाश्रयस्यापीत्याह-हुङ्कारेणेति। महादेव इति विडम्बनगर्भम् । घृत कोशातकीशब्दबदनर्थको महादेवशब्द इत्यर्थः ॥ १७॥ याचितौ प्रशमं जग्मतुः। विष्णुः किमनेन वालेन, अनुकम्प्यतामिति याचितस्तन्निग्रहानिवृत्तः। रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायति सान्त्वितस्तत्तुल्यत्वाभिमानानिवर्तित इत्यर्थः ॥ १८ ॥ अथ स्वाभिमतसिद्धिमाह-जृम्भितमिति । तत् विष्ण्व M अभिप्रायं त्विति । पूर्व विष्णुरेव शिवादलवानिति श्रुतम्, इदानीं रौद्रेण धनुषा त्रिपुरदहनसमये तु युद्धोपकरणं तेजिष्ठं शरमात्रमभूत, अतः किमुभी तुल्यवलो उत न्यूनाधिकबलो वेत्येवंरूपमभिप्रायं विज्ञायेत्यर्थः । केनापि निमित्तेन विरोधं जनयामास ॥१५॥१६॥ तदेति । एकेनैव हुकारेण शेवं धनुः जृम्भितं जडीकृतम् । स्तम्भितः जडीकृतः ॥ १७ ॥ देवैरिति । याचितौ युद्धाद्विरमतमिति याचिती, प्रशमं युद्धोपशमं जग्मतुः ॥ १८॥ जृम्भितमिति । जृम्भितं विष्णुपराक्रमेजडी कतम धनुः शितिकण्ठं च दृष्ट्वा सकलजगद्व्यापक विष्णु शितिकण्ठात्पराक्रमः ज्ञानशक्त्यादिभिश्च अधिकं सर्वोत्तमं मेनिरे। शितिकण्ठधनुषो वैष्णवं धनुश्वाधिक १-तदा । पूजयित्वा ततो विष्णुमाम-ज्य च पिनाकिनम् । प्रोन्द्रादीन पुरमाय नाकपए ययु-ता ।। इत्याधिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468