Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 459
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः। यदीच्छसीति पाठो युक्तः। उभयथा प्रतिबद्धः क्वचित्तिष्ठेन लोकं पीडये दिति रामस्य हृदयम् ॥ ७॥ वीर्यण स्वशत्या मोघो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ॥ ८॥ वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म लाच द्रष्टुं समेता इत्यन्वयः ॥ ९॥१०॥ जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्यिः निर्गतवैष्णवतेजाः । तथाच पुराणान्तरम्-" ततः। न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः। मोघः पतति वीर्येण बलदर्पविनाशनः ॥८॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः । पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः॥९॥ गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः । यक्ष राक्षसनागाश्च तद्रष्टुं महदद्भुतम् ॥१०॥ जडीकृते तदा लोके रामे वरधनुर्द्धरे । निवीयों जामदग्न्योऽसौ रामो राममुदैक्षत ॥ ११॥ तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दमन्दमुवाच ह॥१२॥ काश्यपाय मया दत्ता यदा पूर्व वसुन्धरा । विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥ १३ ॥ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् । कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ १४॥ तदिमां त्वं गति वीर हन्तुं नाईसिराघव । मनोजवं गमिष्यामि महेन्द्र पर्वतोत्तमम् ॥ १५॥ परशुरामस्य देहानिर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥” इति । उदेशत विस्मित इति शेषः ॥ ११ ॥ उवाच प्रश्रोत्तरमिति शेषः ॥ १२॥ काश्यपायेत्यादि । यदात्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । दिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृतात्वद्विषये नवत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ॥ १३॥ १४॥ तदिमामिति ।। लोकान् । पादयोर्गतिं गतिशक्तिं वा लोकानिति सुकृतस्य फलप्रापणशक्ति वा हनिप्यामीति भावः । यदिच्छसि उभयोर्मध्ये तद्धनिप्यामीत्यर्थः ॥ ७ ॥ न हीति ।। यस्माद्वैष्णवः ततो मोघो व्यर्थो न पतति लक्ष्यमभित्वा न निवर्तते ॥ ८॥ वरायुधधरं वैष्णवचापधरं तं श्रीराम महदद्भुतं तत्कर्म च द्रष्टुकामः ॥९॥१०॥ जडी कृत इति । तदा लोके जने जडीकृते स्तब्धीकृते सति, निर्यः निर्गतं वीर्य बलं यस्य स तथोक्तः। अनेन परशुरामशरीरान्निर्गत्य वैष्णवं तेजोरामभद्रे संक्रान्त | मिति वेदितव्यम् । तथा च नारासिंहपुराणे-" ततः परशुरामस्य देहानिर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥” इति ॥ ११-१६ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468