Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 462
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भू. जनः सम्बन्धिजनः । गृहे स्थितैरिति शेषः । काम्यन्त इति कामाः, विषयभोगपरिकराः तैः ॥ १० ॥ बधूनां सुषाणाम् । प्रतिग्रहे उपचारे स्वस्वान्तःपुरानयने वा । “वधूर्माया खुषा ” इत्यमरः । युक्ता आसक्ताः, आसन्निति शेषः ॥ ११ ॥ जगृहुः अन्तःपुरं प्रावेशयन् ॥ १२ ॥ मङ्गलालापनैः स्वस्तिवाचनैः, शोभिताः । मङ्गलालम्भनैरितिपाठे - आलम्भनं चन्दनचर्चा । देवतायतनानि गृहदेवतानामगृहाणि । प्रत्य १९०॥ प्रविवेश गृहं राजा हिमवत्सदृशं पुनः । ननन्द सजनो राजा गृहे कामैः सुपूजितः ॥ १० ॥ कौसल्या च सुमित्रा चकैकयीच सुमध्यमा । वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ ११ ॥ ततः सीतां महाभागामूर्मिलां च यशस्विनीम् । कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ १२ ॥ मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः । देवता यतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ १३ ॥ अभिवाद्याभिवाद्यश्च सर्वा राजसुतास्तदा । रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ १४ ॥ कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । कृतदाराः कृतास्त्राश्च संघनाः ससुहृ । शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥ १५ ॥ कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् । भरतं केकीपुत्रमवीद्रनन्दनः || १६ || अयं केकयराजस्य पुत्रो वसति पुत्रक । त्वां नेतुमागतो वीर युधा जिन्मातुस्तव ॥ १७ ॥ श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः । गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥१८॥ पूजयन् गन्धपुष्पादिभिरपूजयन् । आयतन पूजामात्रे स्त्रीणामधिकारादिति भावः ॥ १३ ॥ अभिवाद्येति । सर्वा अभिवाद्य सर्वा रेमिर इत्यन्वयः ॥ १४ ॥ वर्तयन्ति अनुवर्तयन्ति स्म ॥ १५ ॥ कस्यचित्त्वथ कालस्य कस्मिंश्चित्काले गते सति ॥ १६ ॥ मातुलस्तवेति । अतो गच्छेति व्यञ्जना पथ रम्यां कुसुमोत्करादिभिरुपचारैः रम्याम् ॥ ७-१० ॥ कौसल्येति । वधूप्रतिग्रहे वधूनां स्नुषाणां प्रतिग्रहे युक्तास्तत्पराः || ११||१२|| मङ्गलालम्भनैः मङ्गला लङ्करणैः । देवतायतनानि गृहदेवताप्रतिमाः॥ १३ ॥ १४॥ कृतदारा इति । पितरं शुश्रूषमाणाः वर्तयन्ति उज्जीवयन्ति, आह्लादयन्तीति यावत् । कृतास्नाः लब्धानाः। १ स्वदा । स्वं स्वं गृहमथासाथ कुबेरभवनोपम् । गांभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् ॥ २ नरर्षभाः । कालेकाले तु नीतिकास्तोषयन्तो गुरुं गुणैः। ३ सुवम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । ४ स्तव । प्रार्थितस्वेन धर्मज्ञ निथिलायामहं तथा। ऋषिमध्ये तु तस्य स्वं प्रीतिं कर्तुमिहाईसि । ५ सुतः । अभिवाद्य गुरुं रामं परिव्वज्य च लक्ष्मणम् । इत्यधिकः पाठः । For Private And Personal Use Only टी.बा.कॉ. स० ७७ ॥ १९०॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468