Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥१८९॥
गतिः गमनम् ॥ १५॥ लोकहननं नाम लोकदानप्रतिबन्धः। मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ॥१६॥ टी.बा.का. अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन "न ब्रह्मा नेशानः" इति महोपनिषदुपबृंहिता। परामर्शात ग्रहणात.स. ७६ ॥ १७॥ १८॥ इयं त्वया विमुखीकृतिः । ब्रीडा लज्जा ॥१९॥शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ॥२०॥२१॥ दृश्य दृष्ट्वा ।।
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि तान शरमुख्येन माभूत्कालस्य पर्ययः ॥ १६॥ अक्षयं मधु हन्तारं जानामि त्वां सुरोत्तमम् । धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ १७॥ एते सुरगणाः सर्वे निरी क्षन्ते समागताः । त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८॥न चेयं मम काकुत्स्थ वीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्र पर्वतोत्तमम् ॥२०॥ तथा बुवति रामे तु जामदग्ये प्रतापवान् । रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥२१॥ स हतान् दृश्य रामेण स्वान् लोकान तपसार्जितान् । जामदग्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२ ॥ ततो वितिमिराः सर्वा दिशश्वोपदिशस्तथा । सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २३॥ राम दाशरथिं रामो
जामदग्यः प्रशस्य च । ततः प्रदक्षिणं कृत्वा जगामात्मगति प्रभुः॥२४॥इत्यार्षे बाल षट्सप्ततितमः सर्गः ॥७६॥ लोकान् इतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ॥२२॥ २३॥ आत्मगतिं स्वस्थानम् ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे मणिमनीराख्याने बाटकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥७६॥ अक्षय्यमिति । अस्य इतरदुरारोपणस्य धनुषः परामर्शादारोपणाद्धेतोः त्वामक्षय्यं केनापि क्षयं पराजयं नेतुमशक्यम्, मधुहन्तारं पुरुषोत्तमं सुरीत्तमं देवदेवं जानामि निश्चिनोमि । (अक्षय्यमिति पाठः) ॥ १७ ॥ १८॥ नेति । यदहं पूर्व तादृशः, त्रैलोक्यनायेन त्वया विमुखीकृतः परिभूतः, इयं विमुखीकरणजन्या।
॥१८॥ बीडा लज्जा भवितुं नार्हति, स्वामिनः सकाशात् पराजयो न ब्रीडामावहतीत्यर्थः ॥ १९-२३॥ राममिति । आत्मगति यथा पूर्व विहायसा शीघ्रगमनं गन्तव्यं । माहेन्द्र वा ॥ २४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पदसप्ततितमः सर्गः ॥ ६ ॥ तिलक-यतः उतागृतत्वस्पेशानः" इति श्रुतिप्रसिद्ध नहीव त्वमित्याह-अक्षण्यं अनायन्तम् केनापि पराजय नेतुमशक्यं च । एवं निश्चय हेतु:-धनुष इति । अस्प वैष्णवस्य इतरदुरारोवस्य परामर्शो ग्रहणाकर्षणादिः॥१७
For Private And Personal Use Only

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468