Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 437
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्ये असितवृत्तान्तकथनं सगरवैभवातिशयप्रकटनाय ॥२४॥ प्रतिराजानः प्रतिपक्षाः। शत्रवः शातयितारः। प्रतिराजानेव तान् विशेषयति हेया। इत्यादि॥२५॥ प्रतियुद्धयन् अभिमुखतया युद्धं कुर्वन् । प्रवासितः राज्याभ्रंशितः॥२६॥ भृगुप्रस्रवणे भृगुमहामुनिसान्निध्यवन्निझरोपान्तप्रदेशे। इदमेव । मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥२३॥ यशस्वी ध्रुवसन्धस्तु भरतो नाम नामतः । भरतात्तु महातेजा असितो नाम जातवान् ॥२४॥ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥ तांस्तु स प्रतियुद्ध्यन वै युद्धे राजा प्रवासितः॥ २६॥ हिम वन्तमुपागम्य भृगुप्रस्रवणेऽवसत् । असितोऽल्पबलो राजा मन्त्रिभिः सहितस्तदा ॥२७॥ द्वे चास्य भार्ये गर्मिण्यो बभूवतुरिति श्रुतम् । एका गर्भविनाशाय सपल्यै सगरं ददौ ॥२८॥ ततः शैलवरं रम्यं बभूवाभिरतो मुनिः । भार्गवश्यवनो नाम हिमवन्तमुपाश्रितः ॥ २९ ॥ तत्रैका तु महाभागा भार्गवं देववर्चसम् । ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमात्मनः॥३०॥ तमृर्षि साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥३१॥ स तामभ्य वदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ॥ ३२॥ तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः । महावीर्यों महातेजा अचिरात् सञ्जनिष्यति । गरेण सहितः श्रीमान मा शुचः कमलेक्षणे ॥ ३३ ॥ पूर्व भृगुतुन्द इत्युक्तम् ॥२७॥ सगरं गरं विषं तत्सहितं भक्ष्यमित्यर्थः ॥२८॥ तत इति । अभिरतः प्रीतः सन् हिमवन्तमुपाश्रितोऽभूत् स्वदेशवासाभि मानेन प्रीतः सन् तद्वरप्रदानाय सन्निहितोऽभूदित्यर्थः ॥२९॥ ३० ॥ कालिन्दीति सगरमुपयुक्तवत्या नाम । उपागम्य शरणं गत्वा । अभ्यवादयत् शुथूपते स्म ॥३१॥ सः पुत्रेप्सुम् अप्रतिबन्धपुत्रेप्सुम् । पुत्रजन्मनि पुत्रोत्पत्तिविषये ॥ ३२॥ गरेण सपनीप्रयुक्तेन । मा शुचः गरप्रयोगनिमित्तं शोकं स्मृतः ॥ १८-२४ ॥ यस्पैत इति । यस्य प्रतिराजानः प्रतिपक्षभूता राजानः। हैहयादयः सोमवंश्याः। शत्रवः हिंसकाः । उदपद्यन्त अजायन्त ॥२५॥ तानिति। प्रतियुद्धचन् प्रतिपक्षतया युद्धचन् । प्रवासितः निष्कासितः राज्याशितः ॥ २६ ॥ २७ ॥ द्वे इति । सगरं गरसहितं भक्ष्यं ददौ ॥ २८॥ तत इति । अभिरतः सन हिमवन्तमुपाश्रितोऽभूदिति सम्बन्धः ॥२९॥३०॥ तमूपिपिति । कालिन्दी कालिन्द्याख्या ऋषिमुपागम्य शरणं गत्वा अभ्यवायत शुश्रूषते स्म ॥३१॥ स तामिति । IMपुत्रजन्मनि पुत्रजन्मविषये ॥३२॥ तवेति । गरेण सपत्नीमयुक्तेन गरेण तस्य विपत्तिर्न भवतीति गम्यते, जातः स वंशकरो भविष्यति अतः मा शुचः ॥ ३३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468