Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥१८२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स० ७२
सिंहासनं कथं त्वया शक्यं दातुम् ? तत्राह यथेति । इयं मिथिला यथा दशरथस्येष्टविनियोगा तथा अयोध्या च मम, तथा च युवयोः प्रभुत्वे सन्देहो . टी.वा.को नास्ति । अतो यथाई यथोचितम, प्रभुत्वं कर्तुमर्हथ। पूजार्यां बहुवचनम् । वयं सर्वे भवदधीनाः यूयमेवास्माकं त्रयाणां हितमुपदिश्य यथोचितं प्रकृत तथा ब्रुवति वैदेहे जनके रघुनन्दनः । राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १७॥ युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ । ऋपयो राजसङ्घाश्च भवद्भयामभिपूजिताः ॥ १८ ॥ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् । श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १९ ॥ तमाष्टट्वा नरपतिं राजा दशरथस्तदा । मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ २० ॥ स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः प्रभाते काल्यमुत्थाय चक्रे गोदान मुत्तमम् ॥ २१ ॥ गर्वा शतसहस्राणि ब्राह्मणेभ्यो नराधिपः । एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ २२ ॥ सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः । गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २३ ॥ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः । ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २४ ॥ ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ २५ ॥ इत्यार्षे श्रीरामायणे ० बालकाण्डे द्विसप्ततितमः सगः ॥ ७२ ॥ कार्य कर्तुमईथेत्यर्थः ॥ १६ ॥ हृष्ट इति । एवमेकवाक्यवादनेति शेषः ॥ १७-२० ॥ काल्यं काले कर्तव्यं गोदानं समावर्तनम् ॥ २१ ॥ तदङ्ग दानान्याह - गवामित्यादि ॥ २२ ॥ सम्पन्नाः । क्षीरसम्पन्नाः । कांस्य दोहनाः कांस्यमय दोहन पात्राः । सुबहु अन्यद्वित्तं च ॥ २३ ॥ २४ ॥ सौम्यः सुप्रसन्नचित्तः ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥
1
मर्हय वयं सर्वे भवदधीना यथोचितं कर्तुमर्हयेत्यर्थः ॥ १६-२० ॥ स गत्वेति । काल्यं काले कर्तव्यम् ॥ २१ ॥ २२ ॥ सुवर्णेति । याः सुवर्णशृङ्गाः । संपन्नाः क्षीर सम्पन्नाः । कांस्पदोहनाः कांस्यमयानि दोहनपात्राणि यासां तासां गवाम् । चत्वारि शतसहस्राणि स्वरूपेण दत्त्वा गोदानमुद्दिश्य वित्तं दक्षिणात्वेन ददौ, सुबहु अन्यद्वित्तं च ॥ २३ ॥ २४ ॥ गोदानं तदाख्यं कर्मविशेषम्। “गोदानं चौलवत्कार्यं षोडशेऽब्दे तदुच्यते । अङ्कोपवेशनं नास्ति श्मश्रूणां मुण्डनं भवेत् । स्नात्वा व वाग्यतस्तिष्ठनहरशेषं नयेदथ आदित्येऽस्तमिते वाचं विसृजेतान्तिके गुरोः । अहं वरं ददामीति दद्याद्गोमिथुनं ततः ॥ इत्याश्वलायनकारिकायाम् । इदं समा |
For Private And Personal Use Only
॥१८२॥

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468