Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
चा.रा.भ.प. सौन्दर्यमस्मदपक्षितम्, किन्वाभिजात्यं चेत्यत्राह-मम सुतेति । आचारप्रधानजनककुलजातायाः किं वक्तव्यमाभिजात्पमिति भावः। यद्वा मम सुता टी.बा.को ॥१८३॥ महता तपसा राम' इतिवत् तुभ्यं दातुं विरचितविविधव्रतोपवासादिकस्य मम कन्येत्यर्थः । अस्त्वियं सुन्दरी भोगार्था, धर्माचरणार्थमन्यया भवि
शतव्यमिति मन्येतेत्यत्राइ-सहधर्मचरी तवेति । भोगार्थेयमेव धर्माचरणार्थापीति भावः । समानो धर्मः सहधर्मः, तं चरतीति सहधर्मचरी ।" दोषो| यद्यपि तस्य स्यात् सतामेतद्गर्हितम् ।" इति वक्तस्तवानुरूपेयम् "न कश्चिन्नापराध्यति" इति वक्तीति भावः । एवं सौन्दर्याभिजात्यधर्माचरण शीलत्वादिमत्त्वेऽपि त्वदनुमत्यभावान्नैनां प्रतिगृहामीत्यत्राह-प्रतीच्छ चैनामिति । प्रतीच्छ गृहाण । सीतायाः रामाविनाभूततया तस्याः प्रदानानह । त्वात् ददामीत्यनुक्तिः। भद्रं ते स्वतःसिद्धायाः कस्त्वं दातुमिति रामः कुप्येदिति सान्त्वयति । यद्वा निरतिशयकन्यालक्षणशालिन्या अस्याः
प्रतिग्रहे भवतः सर्वाणि मङ्गलानि भविष्यन्तीत्यर्थः। यद्धा अनुरूपवधूवरयोः संयोगे दृष्टिदोषो भविष्यतीति मङ्गलमाशास्ते भद्रं त इति । एवं मया । Mनुज्ञाते गान्धर्वराक्षसाभ्यामुदहेदिति भीतः पाह-पाणिं गृह्णीष्वेति । “यदि कामयेत स्त्रीख जनयेयमित्यड्डुलीरेव गृह्णीयात्" इत्याधुक्तकामव्यावृत्तये
पाणिमित्युक्तम् । प्रणयधारायां पादग्रहणमस्तु, सम्प्रति पाणिं गृह्णीष्व पाणिनेति साहित्यकृतशोभाविशेषदर्शनाभिलाषेणोक्तम् । ब्राह्मणस्यैव पाणि Mग्रहणम्, क्षत्रियादेः शरादिग्रहणं विहितम्, अतः कथामिदं सङ्गच्छत इति न शङ्कनीयम्, तस्यासवर्णविषयत्वात् । आह मनुः-"पाणिग्रहणसंस्कारः।
सुवर्णासु प्रदृश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वेश्यकन्यया । वासोदशा शूदया तु वर्णोत्कृष्टस्य वेदने ।" इति । अतः सर्ववर्णानामपि सवर्णासु पाणिग्रहोऽस्त्येव ॥२४॥ तनि०-इयं निरतिशयरूपवती । सीतेति जन्मपरिशुद्धिरुच्यते । मम सुतेत्याबासपरिशुद्धिः।। तव सौन्दर्यवागुरया सर्वहृदयाकर्षकस्य । सहधर्मचरी नित्यं सहधर्मचारिणी भविष्यतीति कालविशेषविधानाभावात् । नित्यं सहधर्मचारिण्याः किमिदं दानमिति न कोपः कार्य इति प्रसाई याचते-भई त इति । मासोत्सवादिष्वर्चाविग्रहविवाहवदवतारानुगुणविवाहादिकं न विरुद्धचत इति हृदयम् । यहा मत्तोऽपि प्रेमातिशयस्तवापीति। दृष्टिदोषपरिहारार्थ रक्षा करोति भई त इति । पाणिं गृहीष्व पाणीनेति तादृशा अवस्थानुभवेन नयनसाफल्यं भजाम इति भावः । आचार्यास्तु प्रकारान्तरेण व्याचक्षते-नयं रूपौदार्यगुणैरहमेव गरीयानिति न तूष्णीं स्थातव्यम्। एनामपि पश्य तुल्पशीलवयोवृत्तामित्याद्युक्तलक्षणवत्त्वानवेयमर्हति । अतिशयान्तरमाह सीतेति । आभिजात्या ॥१८३॥ योनिजत्वे अतिशयिते । इयं सीता सुवर्णलता भूमावेव खलूपद्यते । हिरण्यवर्णा खल्वियम् । मम सुता “ जनकानां कुले कीर्तिमाहरिष्यति मे सुता" इति प्रसिद्धि 3 विषया । सहधर्मचरी त्वदाचारितधर्माणां प्रवर्तयित्री । प्रतीच्छ अत्यादरेण गृहाण ।" न च सीता त्वया हीना" इत्यादिवत् “न जीवेयं क्षणमपि " इत्येवंप्रकारेण च ।
For Private And Personal Use Only

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468