Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ॥१८॥ घटिकाद्वयपरत्वे विजयः पूर्वाह्न एव भवति । पुरतः कृत्वा उपागमदितिशेषः । कृतकौतुकमङ्गलः कृतविवाहसूत्रबन्धनरूपमङ्गलाचारः । “कौतुकं टी.बा.क. विषयाभोगे हस्तसूत्रे" इत्यमरः॥८॥९॥ दातारमिति । त्वामितिशेषः ॥ १०॥ दातृप्रतिगृहीतृभ्यामिति । योग इतिशेषः । सर्वार्थाः दानप्रति स०७३ वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥९॥ राजा दशरथो राजन् कृतकौतुकमङ्गलैः । पुत्रैर्नरवर श्रेष्ठ दातारमभि कक्षिते ॥ १०॥ दातृप्रतिगृहीतृभ्यां सर्वार्थाः प्रभवन्ति हि । स्वधर्म प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥॥ इत्युक्तः परमोदारो वसिष्ठेन महात्मना । प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १२ ॥ कःस्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १३॥ कृतकौतुकसर्वस्वा वेदिमूल मुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता वढेरिवार्चिषः ॥ १४॥ सजोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं कुरु तां राजा किमर्थमवलम्बते ॥ १५॥ तद्राक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा । प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥१६॥ ततोराजा विदेहानां वसिष्ठमिदमब्रवीत् । कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक । रामस्य लोकरामस्य क्रियां वैवाहिकी प्रभो ॥ १७ ॥ तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः। विश्वामित्र पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १८॥ ग्रहादयः । विवाह एवं वैवाह्यं कृत्वा । स्वधर्म प्रतिज्ञारूपम् ॥ ११ ॥ १२॥ प्रतिहारः द्वारपालः। किमर्थ द्रुतमागमनं परिहियत इतिभावः। यथेति । त्वदीयं राज्यमिव मदीयमपि राज्यं तवैव तथा च मद्गृहमात्रस्य स्वीयत्वे को विचार इत्यर्थः ॥ १३ ॥ कृतकौतुकसर्वस्वाः अनुष्ठितविवाहोपयोगि । सर्वमङ्गलाचाराः॥१४॥आवित्रं अविलम्बम् । अवलम्बते विलम्बते ॥ १५॥ श्रुत्वेति वसिष्टप्रेरितपुरुषमुखादित्यर्थः ॥ १६॥ तत इति । लोका रम न्तेऽस्मिन्निति लोकरामः। तस्य ॥१७॥ तथेत्यादि । प्रपा पानीयशालिका। अभिनवनालिकेरादिपत्ररचितमण्डप इत्यर्थः । सुवर्णपालिकाभिः साङ्कराभि त्य पज्ञवाटान्तरवर्तिनं वैदेहम् ॥९॥१०॥ दात्रिति । दातृप्रतिग्रहीतृभ्यां गुणैः परपस्परानुरूपाभ्याम्। विवाह एव वैवाह्यम् । कन्यापदानं कृत्वा स्वधर्म प्रतिज्ञात धर्म दातुरनुरूपं धर्मम् ॥ ११-१६ ॥ तत इति । लोकरामस्य लोका अस्मिन रमन्त इति लोकरामः ॥ १७ ॥ तथेति । प्रपामध्ये मण्डपमध्ये । अलवकारेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468