Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalassagarsun Gyanmandir
पा-रा.भू.
1१८०॥
स०७२
सम्बन्धः सदृशः उभयकुलसदृशः रूपसम्पदा च सदृशः तुल्यरूपयोर्विवाह इत्यर्थः । अत्र हेतुमाह रामेति । सीता ऊर्मिलया सह रामलक्ष्मणयोः टी.बा.कां. यतः सदृशीत्यनुषङ्गः । यद्वा सीता ऊर्मिलया सह रामलक्ष्मणयोः चकाराद्रामलक्ष्मणौ च सीतोमिलयोः रूपसम्पदा सदृशः । शकारान्ते बहु। वचनम् । अतः सदृशो धर्मसम्बन्ध इत्यर्थः ॥ ३॥ वक्तव्यश्चेति । अन्यद्वक्तव्यं किञ्चिदस्ति तदपि श्रूयतामित्यर्थः ॥ ४॥५॥ पन्यर्थमित्युक्तं ।
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥४॥भ्राता यवीयान धर्मज्ञ एष राजा कुशध्वजः । अस्य धर्मात्मनो राजन रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यथै वरयामहे॥५॥भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरयामस्सुते राजस्तयोरर्थे महात्मनोः॥६॥ पुत्रादशरथस्येमे रूपयौवनशालिनः। लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः॥७॥ उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् । इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा । जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ ९॥ कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ। सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम् ॥१०॥ एवं भवतु भद्रं वः कुशध्वजसुते इमे । पत्न्यौ भजेतां सहितौ
शत्रुघ्नभरतावुभौ ॥११॥ एकाहाराजपुत्रीणां चतसृणां महामुने। पाणीन गृह्णन्तु चत्वारोराजपुत्रा महाबलाः ॥१२॥ M कयोरित्याकांक्षायां तदुपपादयन्नाद-भरतस्येति । भरतस्य शत्रुघ्नस्य च तयोरुभयोरर्थ इत्यन्वयः॥६॥७॥ उभयोरिति । उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यतामित्यर्थः । भवतः कुलमित्यनुकर्षः। अव्ययं निर्दोषम् । अन्योन्यसम्बन्धेनान्योन्यमुत्कर्ष प्राप्नुयादित्यर्थः ॥ ८॥ वसिष्ठस्य मते । वसिष्ठानुमत इत्यर्थः ॥ ९॥ कुलमिति । यद्यस्मात् । मुनिपुङ्गवो युवां येषां नः कुलसम्बन्धम् इक्ष्वाकुवंशेन यौनसम्बन्धम् । स्वयं शिष्यमुखं विना । आज्ञापयथः, तस्मात्तेषां नः इदं कुलं धन्यं भाग्यशालीति मन्ये ॥१०॥ पत्न्यौ भजेतां पत्नीत्वेन भजेताम् । सहितौ सदा सहचरौ ॥१३॥ एकातिर वक्तव्यमिति । किश्चिदन्यद्वक्तव्यमस्ति तच्च्यताम् ॥ ४-६॥ दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनतेत्याह-पुत्रा इति ॥ ७ ॥ उभयोरिति । पुण्यकर्मणो भवतः कुलम्, अव्ययम् इक्ष्वाकुकूलं च । उभयोः सम्बन्धेन कुलद्वयमनुबध्यताम् ॥ ८-१२॥
For Private And Personal Use Only

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468